पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४११ चरेद्विप्रः समाहित इति । तया प्रोत्साहितस्य प्राजापत्यम् । उभयेच्छात प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशा न्येषामपि स्मृतिवचसां विषयव्यवस्थोहनीया पुरुषवच्च स्त्रीणामप्यत्र महा पातकित्वमविशिष्टम् । तथाहि कात्यायन *एवं दोषश्च शुद्धिश्च पतिताना मुदाहृता । स्त्रीणामपि प्रसक्तानामेष एव विधिः स्मृतः ॥' इति अपि कामतः प्रवृत्तौ मरणान्तिकमविशिष्टम् । अतएव पुरुषस्य मरणान्तिक मुक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम्-‘छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा’ इति । अकामतस्तु मनुनोक्तम्-(११॥ १८८) एतदेव ऋतं कार्यं योषित्सु पतितास्वपि’ इति । द्वादशवार्षिकमेवार्धकल्पनया कार्यम् । यानि पुनर्गुरुतल्पसमानि सखिभार्याकुमारीषु स्वयोनेिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥' इति प्रतिपादितानि, यानेि चातिदेशविषयभूतानि “पितुः स्वसारं मातुश्च मातुलानीं लुषामपि । मातु सपत्रीं भगिनीमाचार्यतनयां तथा आचार्यपलीं स्वसुतां गच्छंस्तु गुरुतल्पगा इति प्रतिपादितानि, तेष्वेकरात्रादूध्र्वमैकामतोऽभ्यस्तेषु यथाक्रमेण षङ्कार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्नेव विषये कामतोऽत्यन्ताभ्यासे मरणान्तिकम् । तथाच बृहद्यमः–“रेतः सिक्त्वा कुमारीषु स्वयोनेिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥’ इति । अन्त्यजाश्चात्र–‘चण्डाल श्वपचः क्षत्ता सूतो वैदेहिकस्तथा । मागधायोगावौ चैव ससैतेऽन्त्यावसायिन इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । नतु ‘रजकश्चर्मकारश्च' इत्यादिप्रतिपा दिताः । तेषु लघुप्रायश्चित्तस्योक्तत्वात् तथा (११॥१७५)-‘चण्डालान्त्य स्रियो गत्वा भुक्त्वा च प्रतिगृह्य च पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं गच्छति ॥’ इति चाण्डालादिसाम्यं प्रतिपाद्यता मनुनापि कामतोऽत्यन्ता भ्यासे मरणान्तिकं दर्शितम् । तथाहेि अज्ञानतश्चण्डालीगमनाभ्यासे पतत्यत पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽत्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधिकं मरणान्तिकं कुर्यात् । एतच्च बहुकाला यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् । यथाह मनुः (११॥१७८) यत्करोत्येकरात्रेण वृषलीसेवनाि तद्वैक्षभुग्जपन्नित्यं त्रिभिर्वर्षेव्र्यपोहति इति । अत्र वृषलीशब्देन चण्डाल्यभिधीयते–“चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका ऊढा या च सगोत्रा स्यादृषल्यः पञ्च कीर्तिता इति स्मृत्यन्तरे चण्डाल्यां वृषलीशब्दप्रयोगदर्शनात् । बन्धकी स्वैरिणी । कथं पुनरत्राभ्यासावगमः । उच्यते । यत्करोत्येकरात्रेणेत्यत्यन्तसंयोगापवर्गवाचिन्या स्तृतीयाया दर्शनात् । एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनानुपपन्न इति गमनाभ्यासोऽवगम्यते । अतएवैकरात्राद्वहुकालाभ्यासविषयं प्रागुक्त द्वादश वर्षादिगुरुतल्पवतातिदेशिकं मरणान्तिकं च । यदा पुनज्ञानतोऽज्ञानतो वा चैण्डा ल्याद्याः सकृद्वच्छति तदा “चण्डालपुख्कसानां तु भुक्त्वा गत्वा च योषितम् । १ मेवात्र कल्पनया ड. २ दूध्र्व कामतो ङ. ३ सतस्तस्य