पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] त्रा मिताक्षरासहिता । अतएव मनुना सकलं प्रायश्चित्तजातमभिधायाभिहितम् ( ११।१८१ )–‘यो येन पतितेनैषां संसर्ग याति मानव । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥’ इति । विष्णुनापि सामान्येनोपपातक्यादेनस्विमात्रसंसर्गे तत्प्रायश्चित्तभाक्स्वं दर्शितम्–“पापात्मना येन सह यः संसृज्यते स तस्यैव ब्रतं कुर्यात्’ इति । अतएव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः ( ११॥१८९)–‘एनस्वि भिरनिर्णितैनीर्थ कंचित्समाचरेत्’ इति । तथा –“न संसर्ग भजेत्सद्भिः प्राय श्चित्ते कृते सति’ इति च । एतच्च द्वादशवार्षिकादिपतितप्रायश्चित्त बुद्धिपूर्वसंसर्ग विषयम् ।–“पतितेन सहोषित्वा जानन्संवत्सरं नरः । मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥’ इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर्वसेि ष्टोक्तम्-‘पतितसंप्रयोगे तु ब्राहेण वा यौनेन वा स्रौवेण वा यास्तेभ्य सा प श्र न संवसेदुदीचीं दिशै गत्वाऽनश्म न्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते’ इति । तथा–‘ब्रह्महा मद्यपः स्तनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥ ईति, तैरिति तृतीयया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्टयसंसार्गेण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् ॥ ननु महापातकिसंसर्ग एव महापातकित्वे हेतुर्न ब्रह्महादिविशेषसंसर्ग तस्य व्यभिचारातू । अतोऽत्र ब्रह्महादिसंसर्गिसंसर्गिणोऽपि महापातकिसंसर्गे विद्यत इति तस्यापि महापातकित्वं स्यान्न च । प्रतिषेध उच्यते । स्यादेवं यदि प्रमाणान्तर गम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तैस्मिन्नेव भवितुमर्ह तीति । तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्रा ब्रह्महादिविशेषसंसर्गस्यैव महापातकित्वहेतुत्वस्यावगमितत्वात् । एवंच सति प्रतिषेधाभावोऽप्यहेतुः प्राप्स्यः भावादेव । अतः संसर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर्न भवति प्रायश्चित्तं तु भवत्येव । नच संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तमिति वाच्यम् । ( ११।१८९)–‘एनस्विभिरनिर्णितैनौथै कंचित्समाचरेत्’ इति सामान्येनैन स्विमात्रसंसर्गप्रतिषेधेन महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्पातित्या भावेऽपि युक्तमेव प्रायश्चित्तम् । तच पादहीनम् ।–‘यो येन संवसेद्वर्ष सोऽपि तत्समतामियात् । पादहीनं चरेत्सोऽपि तस्य तस्य चतं द्विजः ॥” इति व्या सोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्चमयोरपि कामतः संसार्गिणोरर्धहीनं त्रिपादोनै च द्रष्टव्यम् । अतः साक्षाब्रह्महादिसंसर्गेिण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गेिण इति सिद्धम् । अत्र च ब्रह्महादिषु यद्यपि कामतो मरणान्ति कमुपदिष्टं तथापि संसर्गिणस्तन्नातिदिश्यते । स तयैव ब्रततं कुर्यादिति ऋतस्ये चातिदेशात् । मरणस्य च वतशब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेऽपि संसर्गे द्वादशवार्षिकमकामतस्तु तदर्धम् । संसर्गश्च स्वनिबन्धनकर्मभेदादनेकधा भिद्यते । यथाह वृद्धबृहस्पतिः-“एकशय्यासनं पङ्गिर्भाण्डपङ्कयन्नमिश्र णम् । याजनाध्यापने योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न १ इति सर्व निरवद्य ङ. २ तैरिति सर्वनाम ख. ३ तस्मात्रैवं ङ ४१३