पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ याज्ञवल्क्यस्मृतः । [ प्रायश्चित्ताध्यायः कर्तव्योऽधमैः सह ॥’ इति । देवलोऽपि–‘संलापस्पर्शनिःश्वाससहयानास नाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥' इत । एकशय्यासन . मेकखट्टाशयनमेकपङ्गिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्न ोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः ।। सहभोजन मेकामत्रभोजनम् । संलापः संभाषणम् । स्पशों गात्रसंमर्दः । निःश्वासः पतित मुखवायुसंपर्कः । सहयानमेकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमेित्यपेक्षायां बृहद्विष्णुनोक्तम्-‘संवत्सरेण पतति पतितेन सहाचरन्नेकयानभोजनासनशयनैः, यौनस्रौवमुख्यैस्तु संबन्धैः सद्य एव' इति । अत्रैकभोजनमेकपङ्गिभोजनम् । एकामत्रभोजने तु सद्यःपातित्यम् ।–‘याजनं योनिसंबन्धे स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ।। इति देवलस्मरणात् । स्रौवशब्देन याजनमभिधीयते । मुख्यशब्देन मुखभव त्वेनाध्यापनम् । यौनस्रौवमुख्यैरिति सत्यपि द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्य पतनहेतुत्वम् यः पाततः सह यानमुख्यस्त्रावाना 'सबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्’ इति सुमन्तुस्मरणात् । एकयानादिचतु ष्टयस्य तु समुदितस्यैव पतनहेतुत्वम् एकयानभोजनासनशयनैः' इति इत रेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतनहेतुत्वाभावेऽपि दोषहेतुत्वम स्त्येव ।–“आसनाच्छयनाद्यानात्संभाषात्सहभोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥’ इति पराशरवचनेन निरपेक्षाणामपि पापहेतुत्वाव गमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुचिताना मेव पतनहेतुत्वं न पृथग्भूतानामल्पत्वात् । पापहेतुत्वं पुनरस्त्येव ।–‘संलाप स्पर्शनिःश्वास’ इति देवलवचनस्य दार्शतत्वात् । अतः संलापादिरहिते सहया नादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवंचव सति ‘एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः’ इति योगी श्वरवचनमपि सहयानादिचतुष्टयपरमेव युक्तम् । यतः संलापादीनां पृथक्पा तित्यहेतुत्वं नास्ति । अतएव मनुना ( ११॥१८० )–“संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ।।' इति यानादिचतुष्ट यस्यैव संवत्सरेण पातित्यहेतुत्वमुक्तम् । अत्रासनग्रहणे शयनस्याप्युपलक्षणम् अत्र चव ‘संवत्सरेण पतति पतितेन सहाचरन् ।' 'यानाशनासनात्’ इति व्यवहि तेन संबन्ध प्राग्दर्शितविष्णुवचनानुरो धात् । तथा–‘संवत्सरेण पतति पतितेन सहाचरन् । भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥’ इति देवल वचनाच्च । नचानन्वयदोषः । यानासनाशनादिहेतोराचरन्नाचारं कुर्वन्निति भेद विवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमेितयेष्टयेछेति । यद्धा आचर न्निति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनादिति द्वितीयार्थे पञ्चमी -याजनाध्यापनाद्यौना (त्सहभोजना) छ तु संवत्सरेण पतति किंतु सद्य एव प्राचीन वचननिचयानुरोधादेव । अतो यौनादिचतुष्टयेन. सद्यः पतति यानादिचतुष्टयेन