पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः गृह्णीयादिति दर्शयति । एवंच सति पतितयौनसंसर्गप्रतिषेधविरोधोऽपि परि हृतो भवति । अयं वाथे बृहद्धारीतेन स्पष्टीकृत –“पतितस्य तु कुमारी विवस्रामहोरात्रोपोषितां प्रातः शुकेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैत इति त्रिरुचैरभिदधानां तीथे स्वगृहे बोद्वहेत्’ इति । तथा एषां कन्यां समुद्वहेदिति वचनात्स्त्रीव्यतिरिक्ततदीयापल्यस्य संसार्गानर्हतां दर्शयति । अतएव वसिष्ठः–‘पतितेनोत्पन्नः पतितो भवति अन्यत्र स्रिया , सा हि परगामिनी तामरिक्थामुद्वहेत्’ इति ॥ २६१ ॥ इति संसर्गप्रायश्चित्तप्रकरणम् । निषिद्धसंसर्गप्रसङ्गान्निषिद्धसंसगोत्पन्नप्रतिलोमवधे प्रायश्चित्तमाह चान्द्रायणं चरेत्सवानवकृष्टान्निहत्य तु । अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास्तेषां प्रत्येकं हनने चान्द्रायणम् । तथाच शङ्गः–“सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्’ इति । यद्वाङ्गिः रसोक्तम्--'सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः स्यादित्याङ्गिरसभाषितम् ।।' इति परावकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम्। अकामतस्तु सूतवधे पराकः । वैदेहकवधे पादोनम् । चण्डाल वधे द्विपादः । मागधवधे पादोनः पराकः । क्षत्तरि द्विपादः । आयोगवे च अनयेव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत्तु ब्रह्मगर्भ वचनम्-*प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृत । अन्तरप्रभवानां च सूतादीनां चतुर्द्धिषट् ॥’ इति तदावृत्तिविषयम् । तत्र सूतवधे पण्मासाः, वैदे हकवधे चत्वारः, चण्डालवधे द्वाविति योग्यतयान्वयः । तथा मागधवधे चत्वारः, क्षत्तरि द्वैमासिकै, अयोगवे च द्वैमासिकमिति व्यवस्था ॥ नैमित्तिकत्रतानां जपादिसाध्यत्वाद्विद्याविरहिणां च शूद्रादीनां तदनुपपत्ते राज्यावेक्षणादिसाध्येष्विवान्धानामनधिकारमाशङ्कयाह शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्धयति ।। २६२ ॥ यद्यपि शूद्रो जपाद्यधिकारहीनस्तथाप्यनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुद्धयति । शूद्रग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्यपि तस्य गायत्र्यादिजपासंभवस्तथापि नमस्कारमञ्चजपो भवति । अतएव स्मृत्यन्तरेऽ भिहितम्--'उच्छिष्टं चास्य भोजनमनुज्ञातोऽस्य नमस्कारो मम्रः’ इति । यद्वा वचनबलाजपादिरहितमेव प्रतं कुर्यात्–‘तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥’ इत्यङ्गिरःस्मरणात् । तथापरमपि तेनैवोक्तम्—‘शूद्रः कालेन शुद्धयेत गोब्राह्मणहिते रतः । दानैर्वा युपवासैर्वा द्विजशुश्रूषया तथा ।।' इति । यत्तु मानवम् (४॥८०)-‘न चास्योपदिशेद्धर्म न चास्य व्रतमादिशेत्’ इति शूद्रस्य ब्रतोपदेशनिषेधपरं वचर्न तदनुपसन्नशूद्राभिप्रायम् । यदपि स्त्यन्तरवचनम्–“कृच्छूाण्येतानि कार्याणि सदा वर्णत्रयेण तु । कृच्छेष्वेतेषु शूद्भस्य नाधिकृारो विधीयते ॥” इति, तत्का