याज्ञवल्क्यस्मृत तथा तिष्ठत्परशु गृहीत्वा ॥ कुशैः काशैश्च बक्षीयात्स्थाने दोषविवर्जिते ॥’ इति व्यास तथान्योऽपि विशेपस्तनेवोक्त बण्टाभरणदोषेण विपत्तिर्यत्र गोर्भवेत् । कृच्छॉर्ध तु भवेत्तत्र भूपणार्थ हि तत्स्मृतम् ॥ ऑतिदाहेऽतिद्मने संघाते चैव योजने । बङ्का शङ्खलपाशैश्च मृते पादोनमाचरेत् इत पालनाकरणाः दिनोपेक्षयां कचित्प्रायश्चित्तविशेपस्तनवोक्त जलाघपल्वले मझा मेघविद्यु द्वतापि वा । श्वश्रे वा पतिताकस्माच्छापदेनापि भक्षिता प्राजापत्य चरत्कृच्छ् गोस्वामी व्रतमुत्तमम् । शीतवाताहता वा स्यादुद्वन्धनहापि वा उपेक्षायां प्राजापत्यं विनिर्दिशेत् इति । इदं तु काश्रन्तरविरहेऽप्युपेक्षायां वादितव्यम् कार्यान्तरव्यग्रतयोपेक्षायां न्वर्धन्–“पल्बलौघमृगव्याघ्रश्वापदा द्विनिपातने अपालत्वातु कृच्छ् स्याच्छून्यागार उपप्लवे इति विष्णुस्मरणात् ॥ तथा सत्यपि व्यापादने कवि दुपकारार्थप्रवृत्तो वचनाद्दोषाभाव यथाह सवत यत्रणे गोचिकित्सार्थे यते कृते विपत्तिः स्यान्न स पापेन लिप्यते इत । यत्रण व्याघ्रादिनियतनार्थ ददद्रोब्राह्मणे द्विजः । दीयमाने विपत्तिश्चन्न स पापेन लिप्यते प्रामघात शरौघेण वेश्मभङ्गन्निपातने । दाहच्छेदशिराभेदप्रयोगरुपकुर्वताम् ॥ द्विजानां गोहेितार्थे च प्रायश्चित्तं न विद्यते। ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते । इति । तथा कूपखाते च धर्मार्थे गृहदाहे च या मृता ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ।' इति । इदं तु बन्धनरहितस्यैव पशोः कथंचिद्वहादिाहेन मृतविषयम् । इतरथा त्वापस्तम्बेनोक्तम्-‘कान्तारेष्वथ दुर्गेषु गृहदाहे खलेषु च । यदि तत्र विपत्तिः स्यात्पाद एको विधीयते ॥' इति । तथाऽस्थ्या दिभङ्गे मरणाभावेऽपि ऋचित्प्रायश्चित्तमुक्तम्-*अस्थिभङ्गः गवां कृत्वा लाङ्गल चच्छेदनं तथा पाटनं दन्तशङ्गाणां मासार्ध तु यवान्पिबेत् ॥’ इति । यत्वा ङ्गिरसम्–“शैङ्गदन्तास्थि स्वस्थापि यदि गौर्भवेत्। इति वज्रशब्दवाच्यं क्षीरादिवर्तनमुक्तं तद्दशक्त विषयम् । इदं च प्रायश्चित्तं गोस्वामेिने व्यापन्नगोसदृशीं गाँ दत्वैव कार्यम् प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीद्यमः ॥’ इति । मनुरपि (८॥२८८)-‘यो यस्य हिंस्याह्नव्याणि ज्ञानतोऽज्ञानतोऽपि वा । स तत्समम् ॥’ इति । एतत्तु पूर्वोत्तं प्रायश्चित्तज्जातं ब्राह्मणस्यैव हन्तुर्वेदितव्यम् क्षत्रियादेस्तु हन्तुर्तृहद्विष्णुना विशेषोऽभिहितः–‘विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्ध पाद एकस्तु शूद्वजातिषु शस्यते ॥' इति । यत्वङ्गि रोवचनम्–“पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा १ गोकृच्छूशर्ध भवेत् ङ. २ अतिदोहातिदमनेन ङ. ३ मृतापि वा ङ
- व्याध्यादि ङ. ६ शृङ्गभङ्गेऽथिभङ्गे वा ङः द्रव्याणि हिंस्याद्यो यस्य
[ प्रायश्चित्ताध्याय ५०