पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] सिताक्षरासहेिता ४२३ प्रोक्ता पर्षद्वच बतं स्मृतम् ॥” इति, तत्प्रातिलोम्येन वाग्दण्डपारुष्यादि विषयम् । तथा स्त्रीबालवृद्धादीनां त्वर्ध, अनुपनीतस्य बालस्य पाद् इति च प्रागुक्तमनुसंधयम् ॥ स्त्रीणां पराशरेण विशेषोऽभिहितः–“वपनं नैव नारीणां नानुत्रज्या जपादिकम् । न गोठे शयनं तासां न वसीरन्गवाजिनम् ॥ सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् । सर्वत्रैवं हि नारीणां शिरसो मुण्डर्न स्मृतम् ।।' इति । पुरुषेषु च विशेषः संवर्तन दार्शतः–“पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखावर्ज सशिखं तु निपातने ।।' इति । पादप्रायश्चित्तार्हस्य कण्ठाद्धस्तनाङ्गरोम्णामेव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणामपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानामपि शिखावर्जितानाम् । र्हस्य तु सशिखस्य सकलकेशजातस्येति । एवमेतद्दिगवलम्बनेनान्ये षामपि स्मृतिवचसां विषयो निरूपणीयः ॥ २६३ ॥ २६४ ॥ इति गोवधप्रायश्चित्तप्रकरणम् । अधुनान्येषामुपपातकानां प्रायश्चित्तमाह उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाथवा पुनः ।। २६५ ।। एवमुक्तेन गोवधवतेन मासं पञ्चगव्याशनादिनान्येषां ब्राल्यतादीनामुपपात कानां शुद्धिर्भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसामथ्योचर्मवसनगोपरिचर्यादिभिग वधासाधारणैः कतिपयैन्यूनत्वमवगम्यते । एतच्च वतचतुष्टयमकामकारे शक्तयः पेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु (मनुः ११॥११ ७ )–“एतदेव वर्त कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवज्र्य शुद्धयर्थ चान्द्रायणमथापि वा ॥’ इति मनूत्तं त्रैमासिकं द्रष्टव्यम् । अतएव वचनाद्यं प्रायश्चित्तातिदेशः सर्वेषा मुपपातकगणपठितानामुक्तप्रायश्चित्तानामनुक्तप्रायश्चित्तानां नामविशेषेन वेदितव्यः । अवकीर्णिनस्तु प्रतिपदोक्तमेव । नन्वनुक्तप्रायश्चित्त विषयतयैवातिदेशस्य युक्ता। इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् । मैवम् । तथा सत्युक्तनिष्कृतीनामुपपातकगणपाठोऽनर्थकः स्यात् । यदि परमुप पातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरमुच्यते । यथा

अयाज्यानां च याजनं । त्रीन्कृच्छूानाचरेद्रात्ययाजकोऽविचरन्नपि ॥’ इति स एव

विषयः केवलं परिहियेत् न पुनर्विशेषतः पठितयैवान्यत्रापि विशेषत एव यत्र प्रायश्चित्तमुच्यते सोऽपि यथा “इन्धनार्थ दुमच्छेदः’ ‘वृक्षगुल्मलतावीरुच्छेदने जप्यमृकशतम्’ इति । अतो त्रात्यतादिषु अस्मिन् शाखे शास्त्रान्तरे वा दृष्टः प्राय श्चितैः सह ‘उपपातकशुद्धिः स्यादेवम्’ इत्यादिना प्रतिपादितत्रतचतुष्टयस्य सम विषयताकल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि व स्मृत्यन्तरदृष्टप्राय श्चित्तानि पाठक्रमेण त्रात्यादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदमुक्तम्