पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः १११॥१९१)–“येषां द्विजानां सावित्री नानूच्येत यथावधि । ताँश्चारयित्वा त्रीन्कृच्छ्न्थ थाविध्युपनाययेत् ।।' इति, यच्च यमेनोक्तम्--'सावित्री पतिता यस्य दशवर्षाणि पञ्च च । सशिखं वपनं कृत्वा बतं कुर्यात्समाहितः ॥ एक विंशतिरात्रं च पिबेत्प्रसृतियावकम् । हविषा भोजयेच्चव ब्राह्मणान्सप्त पञ्च वा ॥ ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥’ इति, तदुभयमपि याज्ञवल्क्यी यमासपयोव्रतविषयम् । यत्तु वसिटेनोक्तम्-‘पतितसावित्रीक उद्दालका चरेत् द्वौ मासौ यावकेन वर्तयेन्मासं पयसा पक्षमामेिक्षयाऽष्टरात्रं घृतेन षडूत्रमयाचितेन त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेदश्वमेधावभृथं गच्छेद्रात्यस्तोमेन बा ’ इति यजेत। अत्रेयं व्यवस्था—र्यस्योपनेत्राद्यभावेन तत्कालातिक्रमस्तस्य याज्ञवल्क्यीयन्वतानामन्यतमं शक्यपेक्षया भवति । अनापद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदशवर्षादूध्र्वमपि कियत्कालातिक्रमे तूद्दालकवतं बाल्य स्तोमो वेति । येषां तु पित्रादयोऽप्यनुपनीताम्नपामापस्तम्बोक्तम–‘यस्य पितापितामहावनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपिता महादेननुस्मर्यत उपनयनं तस्य द्वादशवपर्याणि त्रविद्यकं ब्रह्मचर्यम्’ इति ब्राल्यता ॥ तथा स्तेयेऽप्युपपातकसाधारणप्रासन्वतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् (११॥१६२)–“धान्याचधनचौर्याणि कृत्वा कामाद्विजोत्तमः । सजातीयगृहादेव कृच्छूाधेन विशुद्धयति ॥’ इति । द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुरिदम् । क्षत्रियादेस्न्वल्पं कल्प्यम् । अथा धैपाद्य स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रनिवर्ण विदुषोऽतिक्रमे दण्डभूयस्त्वम्’ इति क्षत्रियादेरपहर्तुर्दण्डाल्पत्वस्य दर्शनात् । तथा–“विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम्’ इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रिय परिग्रहे चौर्ये षाण्मासिकम् । वैश्यापरिग्रहे त्रैमासिकं गोवधग्रतम् । शूद्रापरिग्रहे चान्द्रायणं कल्प्यम् । एवमुत्तरत्राप्यूहनीयम् । इदं च दशकुम्भधान्यापहार षयम् । अधिके तु–“धान्यं दशभ्यः कुम्भेभ्यो हरतो दम उत्तमः । पलसह सादधिके वधः’ इति वधदर्शनात् । कुम्भश्च पञ्चसहस्त्रपलपरिमाणः । धान्यसाह चर्यादन्नधने चैतावद्वान्यपरिमिते वेदितव्ये । अन्नशब्देन तन्दुलादिकमभिधी यते । धनशब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अका मतस्तु त्रैमासिकं गोवधवतम् । तथा–‘मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृ हस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणेन तु ॥' इति । सार्धशतद्वयपण कभ्यजलापहार इदं चान्द्रायणं प्राप्तसमपीतरगोवधत्रतनिवृत् यथै विघीयते । ।-- “तावन्मूल्यजलापहारे पानीयस्य तृणस्य च । तन्मूल्याद्विगुणो दण्डः’ इति पञ्च ऋतदण्डविधानात्तावत्पणयोर्दण्डन्चान्द्रायणयोगेवधादौ सहचरितत्वात् । तथा कृच्छातिकृच्छैन्दवयोः पणपञ्चशतं तथा’ इति चान्द्रायणविषये पञ्चशतपण १ यस्योपनयने आपद्भावेन ङ. २ कृच्छ्शब्देन विशुद्धयतीति पाठान्तरम्. ३ अष्टपादंड 2४ इरतोऽभ्यधिको वधः ङ