पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४२७ समानम् । एकयोगनिर्देशात् । यथाह गौतमः–‘परिवेित्तिपरिवेत्तृपर्याहित पर्याधात्रप्रेदिधिषादिधिष्ट्रपतीनां संवत्सरै प्राकृतं ब्रह्मचर्यम्’ इति । अतएव वसेि ठेनाग्रेदिधिष्पत्यादाविदमेव प्रायश्चित्तमुक्तम् । ‘अग्रेद्विधिपूपतिः कृच्छं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत । द्विधिपूपतिः कृच्छूातिकृच्छूौ चरित्वा तस्मै दत्तां पुनर्निविशेत’ इति । अग्रेदिधिष्वादेर्लक्षणं स्मृत्यन्तरेऽभिहितम् ज्येष्ठायां यद्यनूढायां कन्यायामूह्यतेऽनुजा । या साग्रेदिधिघूज्ञेया पूर्वा तु द्विधिपूः स्मृता ।।' इति । तत्राप्रेदिधिधूपतिः प्राजापत्यं कृत्वा तामेव ज्येष्ठाँ पश्चादन्येनोढामुद्वहेत् । दिधिधूपतिस्तु कृच्छातिकृच्छी कृत्वा स्वोढां ज्येष्टां कनीयस्याः पूर्ववेिवोढे दत्वाऽन्यामुद्वहेदिति परिवेदनम् । तथा भृतकाध्यापक धृतकाध्यापितयोश्च पयसा ब्रह्मासुवर्चलां पिबेदित्यधिकृत्य विष्णुनोक्तम्

  • भूमृतकाध्यापनं कृत्वा भृतकाध्यापितस्तथा । अनुयोगप्रदानेन त्रीन्पक्षान्नियत

पिबेत् ॥’ इति । उत्कर्षहेतोरधीयानस्य किं पठसि नाशेितं त्वयेत्येवं पर्यनुयो गोऽनुयोगप्रदानम् । अतएव संस्मृत्यन्तरे–“दत्तानुयोगान्ध्येतुः पतितान्मनुर ब्रवीत्’ इत्युक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्तयपेक्षया विकल्पः । इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् तुष्टयस्यापि गुरुदारादावपवाद उक्तः । तथान्यत्रापि गौतमादिभिः पारदार्यविशेषे णापवाद् उक्तः । यथाह गौतम -द्वे परदारे त्रीणि श्रोत्रियस्य’ इति । तथा वार्षिकं प्राकृतै ब्रह्मचर्य प्रस्तुत्य तेनैवेदमभिहितम् ‘उपपातकेषु चैवम्’ इति । तत्रेयं व्यवस्था–ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्य । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्म चर्यम् । यद्वा श्रोत्रियपढ्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम् । तादृग्विधायामेव क्षत्रियायां द्वैवार्षिकम् । तादृश्यामेव वैश्यायां वार्षिकमिति व्यवस्था । एतत्स मानदृष्टया शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अतएव शङ्गेन वैश्यामवैकीर्णः संवत्सरं ब्रह्मचर्य त्रिषवणं चानुतिष्ठत्क्षत्रियायां द्वे वर्षे त्रीणि ब्राह्मण्यां वैश्यायां शूद्रायां ब्राह्मणपरिणीतायामिति वर्णक्रमेण हासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिस्त्रीषु क्रमेण द्विवैर्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्योर्वार्षिकषाण्मासिके । शूद्रस्य शूद्यां परभार्यायां षाण्मासिकमेव । यत्वापस्तम्बीयम्--'सवर्णाया मनन्यपूर्वायां सकृत्संनिपाते पादः पतत्येवमभ्यासे पादः पादश्चतुर्थे सर्व'मिति तद्वैौतमीयत्रिवार्षिकेण समानविषयम् । अनन्यपूर्विकायां तु चतुरभ्यासे द्वाद शवार्षिकप्रायश्चित्तविधानादेकस्यामेव गमनाभ्यासे नेदं प्रायश्चित्तं किंतु प्रति गमनं पादन्यूनं कल्प्यम् । एतत्सर्व कामकारविषयम् । अकामतः पुनरेतदेवार्ध कृस्या पूर्वोक्तविषये योजनीयम् । अनृतुकाले तु जातिमात्रब्राह्मण्यां कामतो १ अधीयानस्य नाशितं ख. २ मवकीणीं इ. ३ दिवार्षिकवार्षिकषाण्मासिकानि ख या० ३९