४२८ याज्ञवल्क्यस्मृतःि । [ प्रायश्चित्ताध्यायः गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिस्त्रीषु पुनरस्मिन्नेव विषये तदी यान्येव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि । क्षत्रियादीनां च क्षत्रिया दिखीषु द्वैमासिकादीन्येव । अकामतः पुनरेतासु त्रैवर्णिकानां याज्ञवल्क्यमृष भैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासबतमेवार्धकृस्या योजनीयम् । अतएव संवतैः–‘शूद्रां तु ब्राह्मणो गत्वा मासं मालार्धमेव वा । गोमूत्रयावकाहार स्तिष्ठत्तत्पापमुक्तये ॥’ इति । अकामतोऽर्धमासिकमित्यभिप्रेतम् । ब्राह्मणश्रेदं प्रेक्षापूर्वकं ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मणः कृच्छोऽनिवृत्तधर्मकर्मणो ऽतिकृच्छ् इति तद्राह्मणभार्यायां शूद्रायां द्रष्टव्यम् । द्विजातिस्रीपु वा विप्रो ढासु द्विविधव्र्यभिचरितासु अबुद्धिपूर्वगमने वा । तथाच संबर्तः-‘विप्राम स्वजना गत्वा प्राजापत्य समाचरत्' इति । कामतस्तु –“राज्ञीं प्रबजितां धात्रीं साध्वीं वर्णोत्तमामपि । कृच्छूद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥’ इति यमो कृच्छ्द्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु व्यभिचारस्य स्वैरिण्यां वृषल्यामवकीर्ण सचैलस्रात उदकुम्भं दद्याद्राह्मणाय । वैश्यायां च चतुर्थकालाहारो ब्राह्मणान्भो जयेद्यवसभारै चव गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रोपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रोपोषितो गां दद्याद्भोष्ववकीर्णः प्राजापत्यं चरेत् । अनूढाया मवकीर्णः पलालभरं सीसमाषकं च दद्यात् इति शङ्गोत्तं वेदितव्यम् । चतुराद्य भ्यासविषयत्वं चास्य ‘चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धको मता’ इति स्मृत्यन्तरादवगम्यते । अत्रैव विषये पटूत्रिंशन्मतेऽप्युक्तम्—‘ब्राह्मणीं बन्धक गत्वा किंचिद्दद्याद्विजातये । राजन्यां चेद्धनुर्दद्याद्वैश्यां गत्वा तु चैलकम् ॥ शूद्वां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवसोपोषितो वा स्याद्दद्याद्विप्राय भोज नम् ॥’ इति ( अनुलोमव्यवाये गर्भ द्विगुणं, यदि सा अतिदूषिता न प्रतिलो मगा भवति तदैव । अन्यजातिगमने द्वैगुण्यं, प्रतिलोमदूषितासु अन्यावसा यिस्त्रीषु च चाण्डालीगभे यथा गुरुतल्पत्वं तथा किंचिन्नयूनं तारतम्यं कल्प्यम् । चाण्डालीगमने वार्षिकम् । गर्भ गुरुतल्पत्वं तथैव ज्ञेयम् । ) इदं प्रायश्चित्तजातं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तमुक्तं तदेव तत्र द्विगुणं कुर्यात् ।–‘गमने तु व्रतं यत्स्याद्वभे तद्विगुणं चरत्’ इत्युशनःस्मरणात् । शूह्यां गर्भमादधतश्चतुर्विंशतिमते विशेष उक्तः–‘वृषल्यामभिजातस्तु त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुञ्जीत’ इति । यत्तु मनुवचनम् (३॥१७ )–‘शूदां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥” इति, तत्पापगौरवख्यापनपरम् । प्रातिलोम्य व्यवाये तु सर्वत्र पुरुषस्य वध एव –‘प्रातिलोम्ये वधः पुंसो नार्याः कणा दिकर्तनम्’ इति वचनात् ॥ यत् वृद्धप्रचेतोवचनम्—‘शूद्रस्य ब्राह्मणीं मोहाद्वच्छतः शुद्धिमिच्छतः । पूर्णमेतद्रतं देर्य माता यस्माद्धि तस्य सा ॥ पाद १ त्रैवार्षिकाणां ख. २ तिष्ठत्तत्पापमोक्षकः इति ङ. ३ भार्यायां द्रष्टव्यम् ङ. ४ धनुरन्तः पादीभापो ङ. पुस्तके नास्ति
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति