प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । न्यान्यवर्णासु गच्छतः सार्ववर्णिकम् ॥' इति । द्वादशवार्षिकातिदेशक तत्स्व भार्याभ्रान्त्या गच्छतो वेदितव्यम् । मोहादिति विशेषणोपादानात् । यत्त संवर्तवचनम्-‘कथंचिब्राह्मणीं गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छं सान्त पन्न वा स्यात्प्रायश्चित्तं विशुद्धये ॥ शूद्रस्तु ब्राह्मणीं गच्छेत्कथंचित्काममोहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्धयति ॥’ इति, तदत्यन्तव्यभिचरितब्राह्मणी विषयम् । अन्यजागमनेऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्--'रजकव्याध शैललूषवेणुचवमपजीविनाम् । एतास्तु ब्राह्मणो गत्वा चरेचान्द्रायणद्वयम् ॥’ इति । इदं ब्राह्मणस्य कामतः सकृद्भमनविषयम् । क्षत्रियादीनां तु पादपादहीने कल्प्यम् । अत्रैवापस्तम्बेनोक्तम्—‘म्लेच्छी नटी चर्मकारी रजकी व डी तथा । एतासु गमनं कृत्वा चरेचान्द्रायणद्वयम् ॥’ इत । अन्त्यजाश्च तेनैव दर्शिताः–‘रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिलाश्च ससैते ह्यन्त्यजाः स्मृता ॥’ इति । ये तु चाण्डालाद्योऽन्यावसायिनस्तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । एतासां चान्त्यजस्रीणां मध्ये यदे कस्यां व्यवाये प्रायश्चित्तमभिहितं तत्सर्वासु भवति । सर्वासां सदृशत्वात् । यथाहोशना–“बहूनामेकधर्माणामेकस्यापि यदच्यते । सर्वेषां तद्भवेत्कार्य मेकरूपा हेि ते स्मृताः ॥' इति । अकामतस्तु गमने–“चण्डालमेदश्धपच कपालत्रतचारिणाम् । अकामतः स्त्रियो गत्वा पराकत्रतमाचरेत् ॥' इत्यापस्त म्बोक्तं द्रष्टव्यम् । यच्च संवर्तवचनम्–‘रजकव्याधशैलठूषवेणुचर्मोपजीविनाम् । स्त्रियो विप्रो यदा गच्छेत्कृच्छं चान्द्रायणं चरेत् ॥” इति, तदप्यकामविषयम् । यत्तु शातातपेनोक्तम्—‘कैवर्ता रजकीं चैव वेणुचर्मोपजीविनीम् । प्राजापत्य विधानेन कृच्छेणैकेन शुद्धयति ।' इति, तद्वेतःसेकात्प्राङ्गिवृत्तिविषयम् । यत्तूः शनसोक्तम्-‘कपालिकान्नभोत्कृणां तन्नारीगामेिनां तथा । ज्ञानात्कृच्छाब्द मुद्दिष्टमज्ञानादैन्देवद्वयम् ॥’ इति, तदभ्यासविषम् । यदा तु चाण्डाल्यादिषु गच्छतो गभर्मो भवति तदा 'चाण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्’ इत्यु शनसोत्तं द्वादशवार्षिकं द्रष्टव्यम् । यत्तु ‘अन्त्यजायां प्रसूतस्य निष्कृतिर्न विधीयते । निर्वासनं कृताङ्कस्य तस्य कार्यमसंशयम् ॥' इत्यापस्तम्ववनं तत्कामकारविषयम् । स्त्रीणामपि सवर्णानुलोमव्यवाये यत्पुरुषस्योक्तं त्रैवार्षिकादि तदेव भवति । (मनुः ११।१७६)–“यत्पुंसः परदारेषु तचैनां चारयेद्रतम् ॥ इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठ –‘शूद्रश्चेब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नझाँ खरमारोप्य महापथमनु ब्राजयेत्पूता भवतीति विज्ञायते' इति । तथा —‘वैश्यश्चद्राह्मणीमभिगच्छेोहित दभैर्वेष्टयित्वा वैश्यमझौ प्राखेयब्राह्मण्या शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य न खरमारोप्य महापथमनुवाजयेत्पूता भवतीति विज्ञायते’ इति । तथा ‘राजन्य श्रेब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमौ प्रास्येत् ब्राह्मण्याः शिरसेि वपनं कारयित्वा सर्पिषाभ्यज्य नझां गौरखरमारोप्य महापथमनुसंत्राजयेत्यूता १ बुरुडी तथा' ङ ४२९ २ ‘दैन्दवं स्मृतम्’ ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति