प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । योदककर्दमे ॥ तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् । शङ्खपुष्पीलता मूलं पत्रं वा कुसुमं फलम् । क्षीरं सुवर्णसंमिश्र छाथयित्वा ततः पिबेत् ॥ एकभत्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् । बहिस्तावच्च निवसेद्यावचरति तद्रतम् ।। प्रायश्चित्ते ततश्चीर्णे कुर्याद्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुद्धयै स्वायं भुवोऽब्रवीत्। ॥’ इत । ए तदप्यकामविषयमेव-‘यदि गच्छेत्कथंचन' इति वचनात् ॥ ऋष्यशाङ्गेणाप्यन्त्यजव्यवाये प्रायश्चित्तान्तरमुक्तम्—‘संपृक्ता स्याद् थान्यैर्या सा कृच्छाब्दं समाचरेत्’ इति । कामतः सकृद्भमने इदम् । यदा त्वाहितगभया एव पश्चाचाण्डालादिव्यवायस्तदा तेनैव विशेष उक्त –“अन्तर्वली तु युवतिः संपृक्ता चान्त्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्भभे न निःसृतः ।। न प्रचारं गृहे कुर्यान्न चाङ्गेषु प्रसाधनम् । न शयीत समं भत्र न वा भुञ्जीत बान्धवैः ॥ प्रायश्चित्तं गते गर्भ विधिं कृच्ङ्गाब्दिकं चरेत् । हिरण्यमथवा धेर्नु दद्याद्विप्राय दक्षिणाम् ॥' इति । यदा तु कामतोऽत्यन्तसंपर्क करोति तदा “अन्त्यजेन तु संपर्के भोजने मैथुने कृते । प्रविशेत्संप्रदीशेऽौ मृत्युना सा विशु द्धयति ॥' इत्युशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया वध्या वा भवेत् । ‘हीनवर्णोपभुक्ता या साङ्कया वध्याथवा भवेत्' इति पराशरस्मरणात् ॥ इति पारदार्यप्रकरणम् ॥ ॥ तथा परिचित्ति प्रायश्चित्तानामपि परिवेत्तृप्रायश्चित्तवब्द्यवस्था विज्ञेया । इयांस्तु विशेषः । परि वेतुर्यस्मिन्विषये कृच्छ्ातिकृच्छौ तत्र परिवित्तेः प्राजापत्यमिति । ‘परिचित्तिः कृच्छ् द्वादशरात्रं चरित्वा पुनर्निविशेत तां चैवोपयच्छेत्’ इति वसिष्ठस्मरणात् । इति परिवित्तिप्रकरणम् ॥ ॥ वाधुष्यलवणक्रययोस्तु मनुयोगीश्वरोक्तसामान्योप पातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ २६५ ॥ लवणक्रयानन्तरै स्रीशशूद्रविट्क्षत्रवध इत्युपपातकमध्ये पठितं तत्र प्रायश्चित्ता न्तरमप्याह ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् । ब्रह्महत्यात्रतं वापि वत्सरत्रितयं चरेत् ॥ २६ ॥ वैश्यहाब्दं चरेदेतद्दद्याद्वेकशतं गवाम् । षण्मासाच्छूद्रहाप्येतद्धेनूर्दद्याद्दशाथवा ।। २६७ ॥ एकमधिकं यस्मिन्सहस्त्रे तदेकसहस्र तस्य पूरण.एकसहस्रः ऋषभ एकसहस्रो यासां गवां ताः ऋषभैकसहस्रास्ताः क्षत्रवधे दद्यात् । अथवा बृहत्प्रायश्चित्तं ब्रह्महत्यावतं वर्षत्रयं कुर्यात् । वैश्यैघाती पुनरेतत् ब्रह्महत्यावेतमेकवर्ष चरेत् । गवामृषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद्वा दशधेनूरचिरप्रसूताः सवत्सा दद्यात् । इदमकामतो जातिमात्रक्षत्रियाद्विध विषयम् ।–‘अकामतस्तु राजन्यं विनिपात्य’ इति प्रक्रम्यैतेषामेव प्रायश्चित्तानाँ १ वैश्यहा त्वेतत् ङ . ४३१ २ ब्रतमब्दमेकं ङ .
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति