पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४३९ कामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वमे जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । । यत्तु मनुवचनम्-‘गृहस्थः कामतः कुर्याद्रेतसः स्कन्दनं भुवि । - सहस्त्रं तु जपेद्देव्यः प्राणायामैस्त्रिभिः सह ॥' इति तत्कामकारविषयम् ॥२७८॥ मयि तेज इति च्छायां खां दृष्टाम्बुगतां जपेत् । सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ।। २७९ ।। किंच । स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्’ इतीमं मत्रं जपेत्। अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदैवत्यां तत्सवितुरित्यादिकामृर्च जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेतू, अनृतवचने च । एत त्कामकारे द्रष्टव्यम् । अकामकृते तु ‘सुश्वा भुक्त्वा च श्रुत्वा च निष्ठीव्योक्त्वानृतानि च । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥’ इति मनूक्तमाचमनं द्रष्ट व्यम् । यत्तु संवर्तवचनम्–‘श्रुते निष्ठीवने चैव दन्तश्लिष्ट तथानृते । पति तानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति, तदल्पप्रयोजने जलाभावे वा द्रष्टव्यम् ॥ खीश्शूद्रविट्रक्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनु योगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनेि दनै, तेन जीवनमुच्यते तत्रोभयत्रापि वसिष्ठन प्रायश्चित्तान्तरमप्युक्तम्

  • नास्तिकः कृच्छू द्वादशरात्रं चरित्वा विरमेन्नास्तिक्यान्नास्तिकवृतिस्त्वतिकृच्छूम्

इति । एतच्च सकृत्करणविषयम् । उपपातकप्रायश्चित्तान्यभ्यासविषयाणि । यञ्च शङ्केनोक्तम्—‘नास्तिको नास्तिकवृत्तिः कृतन्नः कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति । यञ्च हारीतेन–“नास्तिको नास्तिक वृत्तिः’ इति प्रक्रम्य ‘पञ्चतपोऽभ्रावकाशजलशयनान्यनुतिष्ठेयुग्रीष्मवर्षाहेमन्तेषु इति तदुभयमप्यन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ २७९ ॥ नास्तिक्यानन्तरं ब्रतलोपश्चत्युक्तं तत्रावकीर्णस्याप्रसिद्धत्वात्तलक्षणकथनपूर्वकं प्रायश्चित्तमाह्व अवकीण भवेद्भत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैतं स विशुद्धयति ।। २८० ।। ब्रह्मचार्युपकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीण भवति । चरमधा तोर्विसगोंऽवकीर्ण तद्यस्यास्ति सोऽवकीण स नित्रैतिदैवत्येन गर्दभपशुना यार्ग कृत्वा विशुद्धयति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः पशुग्रहणं “अथ पशुकल्पः’ इत्याश्वलायनादिगृह्योक्तपशुधर्मप्रास्यर्थम् । चतुष्पथे लौकिकेऽौ एतच्चारण्ये कार्यम् । ‘ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लैौकिकेऽौ रक्षोदैवतं गर्दर्भ पशुमालभेत' इति वसिष्ठस्मरणात् ॥ तथा रात्रावेकाक्षिविकलेन यष्टव्यम् । तथाच मनुः (११।११८)-‘अवकीर्णी तु काणेन रासभेन चतुष्पथे । १ वक्ष्यमाणत्वात् ङ. २ निष्ठीविते ड या० ४