पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४४१ पुनःसेवेत मैथुनम्।। षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥’ इति। तथाच परा शरः-'यः प्रत्यवसितो विप्रः प्रत्रज्यातो विनिर्गत । अनाशकनिवृत्तश्च गार्हस्थ्यं चेचिकीर्षति ॥ स चरेत्रीणि कृच्छूणि त्रीणि चान्द्रायणानि च । जातकर्मादिभि सर्वे: संस्कृतः शुद्धिमामुयात् ॥' इति, तत्र ब्राह्मणस्य षाण्मासिकः कृच्छूः पुन संन्याससंस्कारश्च । क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्त्रयमिति व्यवस्था । ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ (चितिभ्रष्टा तु या नारी मोहाद्विचलेिता कचित् । प्राजापत्येन शुच्येतु तस्मादेवापकर्मणः ॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्बस्मरणात् कचिदित्युक्तम् ) तथामरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम् ज्यानाशकच्युताः । विषप्रपतनप्रायशस्रघातच्युताश्च ये ॥ नवैते प्रत्यवसिता सर्वलोकबहिष्कृता चान्द्रायणेन शुद्धयन्ति तसकृच्छूद्वयेन वा इदं च चान्द्रायणं तसकृच्छूद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु ‘शस्रघातहताश्च' इति पाठः तदात्मत्यागाद्यशास्त्रीयमरण निमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्य ॥ यत्पुनर्वसिष्ठनोक्तम्-‘जीवन्नात्मत्यागी कृच्छू द्वादशरात्रं चरेतू त्रिरात्रं चोपवसेत्’ इति तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिजीवने शक्त्यपेक्षया द्रष्टव्यम् अथवाध्यवसायमात्रे त्रिरात्रं शस्रादि क्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकोर्णिप्रायश्चित्तं गुरुदारतत्समव्यति रिक्तागम्यागमनविषयम् । तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । नच लघुना वकीर्णित्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणमुचितम् । नच ब्रह्म चारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम् । आश्रमान्तराणां द्वैगुण्यादि वृद्धेर्बह्महत्याप्रकरणे दुशैितत्वात् नचात्रागम्यागमनप्रायश्चित्तं पृथकर्तव्यम् ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागाम्यागमनेनान्तरीयकत्वात्, अतोऽन्य त्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः । तत् पृथक नैमित्तिकं प्रयुङ्गे यथा (मनुः ११।२०८)-‘अवगूर्य चरेत्कृच्छूमतिकृच्छ् निपातने । कृच्छातिकृच्छूोऽसृक्पाते कृच्छूोऽभ्यन्तरशोणिते ॥' इत्यत्र शोणितो त्पादनानिमित्तेऽवगैरणनिपातलक्षणं निमितद्वयमवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ् मतिकृच्छं च न युङ्गे एवमन्यत्राप्यूहनीयम् । यत्र पुनर्निमित्तानामन्तर्भाव नियमो नास्ति तत्र पुननैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा यदा पर्वणि परभार्या रजस्वलाँ तैलाभ्यक्तो दिवा जले गच्छति' इति । ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्येव । पुत्रि कागमनेऽगम्यागमनदोषाभावात् । तथाहि । न तावत्पुत्रिका कन्या अक्षतयोनि त्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतवृत्तित्वात्, नापि विधवा भर्तृमरणाभावात्, अतः पुत्रिकायाः छाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विलुतस्य केवलमवकीर्णिब्रतम् । अन्यत्र विसुतस्य तु निमित्तान्तरसंनिपातादवकीर्णित्रतं नैमित्तिकान्तरमपि प्रयोक्तव्यमिति । तदसत् । पुत्रिकाया अपि परभार्या १ अयं धनुश्चिह्नगो भागोऽधिकः ङ.२ भाविनस्तत्र ख. ३ अवगोरण ड. ४ प्रयुक्त अत एव अथवा