पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ याज्ञवल्क्यस्मृतिः । तत्र प्रायश्चित्तमाह मिथ्याभिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावदाह मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ॥ २८४॥ मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् । यस्तु परोत्कर्षेष्यजनेितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभिशापं ब्रह्महत्यादिकमनेन कृतमित्यारोपयति तस्य तदेव द्विगुणं भवति ! यस्तु विद्य मानमेव दोषमलोकविदितं जनसमक्ष प्रकाशयति तस्यापि तत्पातकिसमदोष भाक्त्वम् । तथाचापस्तम्बः–“दोषं बुङ्का न पूर्वः परेभ्यः पतितस्य समा ख्याता स्यातू परिहरेचैनं धर्मेषु' इति । न केवलं मिथ्याभिशंसी द्विगुणदोषभाकू अपितु मिथ्याभिशस्तस्य यदन्यदुरितजातं तदपि समादत्त इति वक्ष्यमाण प्रायश्चित्तेऽर्थवादो न पुनः पापद्वगुण्यादिप्रतिपादनमत्र विवक्षितम् । निमित्तस्य लघुत्वालुघुप्रायश्चित्तस्योपदेक्ष्यमाणत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाञ्च ॥ २८४ ॥ [ प्रायश्चित्ताध्यायः महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षेो मासमासीत स जापी नियतेन्द्रियः ॥ २८५ ।। यस्तु महापापेन ब्रह्महत्यादिना गोचधाद्युपपापेन वा मृषेव परमभिशंसति स मासं यावज्जलाशनो जपशीलो जितेन्द्रियश्च भवेत् । जपश्च शुद्धवतीनां कार्यः । ‘ब्राह्मणमनृतेनाभिशस्य पतनीयेनोपेपातकेन वा मासमब्भक्षः शुद्ध वतीरावर्तयेदश्वमेधावभृथं वा गच्छेत्’ इति वसिष्ठस्मरणात् महापापोपपाप प्रहणमन्येषामप्यतिपातकादीनामुपलक्षणम् । एतच्च ब्राह्मणस्यैव ब्राह्मणेनाभिशं सने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेरभिशंसनं करोति क्षत्रियादिर्वा ब्राह्मणस्य तदा–‘प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः । वर्णानामानुलोम्येन तस्माद्धर्धहानितः ॥’ इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिहासौ कल्पनीयौ । भूताभिशंसिनस्तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्ध कल्पनीयम् । तथातिपातकाभिशंसिन एतदेव ब्रतं पादोनम् । पातकाभिशंसिनस्त्वर्धम् । उपपातकाभिशंसिनस्तु पादः । (मनुः ११।१२६)-“तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः’ इत्युपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चित्ततुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशसिनोऽपि उपपातकाश्यूनं कल्पनीयम् । ‘शक्ति चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्’ इति स्मरणात् । यत्तु शङ्खलिखिताभ्यां नास्तिकः कृतः कूटव्यवहारी ब्राह्मणवृत्तिम्रो मिथ्याभिशंसी चेल्यते षङ्कषणि ब्राह्मणगृहेषु भैक्षं चरेयुः संवत्सरं धौतभैक्षमश्रीयुः षण्मासान्वा गा अनुगच्छेयु इति गुरुप्रायश्चित्तमुक्तं तदभ्यासतारतम्यापेक्षया योजनीयम् ॥ २८५ ॥ १ समाख्याने इति पाठान्तरम्. २ नोपपतनीयेन वा. ङ. ३ नोऽपि ततो न्यूनं ङ