पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विवाहप्रकरणम् ३]
१७
मिताक्षरासहिता ।

खैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नैत्यकानुकल्पे काम्ये च पुत्रोत्पादनविधैौ । अतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणर्न वेिभागसंकीर्तनं च, तथा “विप्रान्मूर्धा वसेिक्तो हि' इत्युपक्रम्य ‘विन्नास्वेष विधिः स्मृतः' इति च तद्वतिकामस्याश्रम मात्राभिकाङ्किणो वा नान्तरीयकतयोत्पन्नस्य ॥ ५७ ॥ विवाहानाह-

ब्राह्मो विवाह आहूय दीयते शक्यलंकृता ।
तञ्जः पुनात्युभयतः पुरुषानेकविंशतिम् ।। ५८ ।।

स ब्राह्माभिधानो विवाहः यस्मिझुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दृश आत्मानं चैकविंशं पुनाति सदृत्तश्चेत् ॥ ५८ ॥ दैवार्षाविवाहौ-

यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ।। ५९ ।।

स दैवो विवाहो यस्मिन्यज्ञानुष्ठाने वितते ऋत्विजे शक्यालंकृता कन्या दीयते । यत्र पुनर्गमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैववेिवाह जश्चतुर्दश पुनाति ससावरान् सप्तपरान् । उत्तरज आर्षविवाहजः षट् पुनाति त्रीन्पूर्वान् त्रीन्परान् ॥ ५९ ॥ प्राजापत्यविवाहलक्षणम्-

इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने ।
स कायः पावयेत्तञ्जः षट् षड् वंश्यान्सहात्मना ।। ६० ॥

सह धर्म चरतामिति परिभाष्य कन्यादानं स प्राजापत्यः । तज्ज्ञः षट् पूर्वान्षट्र परान् आत्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥ आसुरगान्धर्वादिविवाहलक्षणानि आसुरो द्रविणादानाद्भान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ।। ६१ ।। आसुरः पुनर्गविणादानात् । गान्धर्वस्तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचवस्तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्वपे हरणात् ॥ ६१ ॥ सवर्णादिपरिणयेन विशेषमाह-

पाणिग्रह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ।। ६२ ।।


१ अन्योद्देशकव्यापारनिर्वत्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्वं वा नान्तरीयकत्वम् . २ द्यवस्थासु हरणात्. क.