पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ] मिताक्षरासहेिता तडागपुण्यसेतुसुतविक्रयं कृत्वा तसकृच्छं चरेत्’ इति, यच्च पराशरेणोक्तम्

  • विक्रीय कन्यकां गां च कृच्छू सान्तपनं चरेत्’ इति, तदुभयमप्यापद्यकामतो

द्रष्टव्यम् ॥ कामतस्तु—‘नारीणां विक्रयं कृत्वा चरेचान्द्रायणत्रतम् ॥ द्विगुणं पुरुषस्यैव व्रतमाहुर्मनीषिणः ॥’ इति चतुर्विशतिमतोत्तं द्रष्टव्यम् ॥ यतु पैठीनसेिनोक्तम्-‘आरामतडागोदपानपुष्करिणीसुकृतसुतविक्रये त्रिषवण स्राय्यधःशायी चतुर्थकालाहारः संवत्सरेण पूतो भवति' इति तदेकपुत्रविषयम् । तदनन्तर “धान्यकुप्यपशुस्तेयम्’ इत्युक्तं, तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ २८७ ॥ अनन्तरमयाज्यानां च याजनमित्युक्तं तत्र प्रायश्चित्तमाह त्रीन्कृच्छानाचरेद्वात्ययाजकोऽभिचरन्नपि । वेदशावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ।। २८८ ।। यस्तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस्त्रीन्कृच्छूाना चरेत् । एतेषां च गुरुलघुभूतानां कृच्छूाणां निमित्तं गुरुलघुभावेन कल्पनीयम् ॥ तथा अभिचरन्नपीदमेव प्रायश्चित्तं कुर्यात् । एतच्चाग्निदाद्याततायिव्यतिरेकेण

  • षट्स्वभिचरन्न पतति' इति वसिष्ठस्मरणात् ॥ अपिशब्दो हीनयाजकान्त्येष्टिः

याजकयोः संग्रहार्थः । अतएवोत्तं मनुना (११।१९७)–‘ब्रात्यानां याजनं कृत्वा परेषामन्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छैव्र्यपोहति ॥’ इति । परेषामन्यकर्मत्यत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा । प्रायश्चित्तस्य. गुरु त्वात् । अहीनो द्विरात्रादिद्वदशाहपर्यन्तोऽहर्गणयागः । यत्तु शातातपेनो क्तम्-‘पतितसावित्रीकान्नोपनयेन्नाध्यापयेन्न याजयेत् य एतानुपनयेदध्याप येद्याजयेद्वा स उद्दालकत्रतं चरेत्’ इति तत्कामकारविषयम्। उद्दालकबतं च प्राग्द शैितम् । एतञ्च कृच्छूत्रयं साधारणोपपातकप्रायश्चित्तस्यापवादुकं अत उपपातक साधारणप्रायश्चित्तं शूद्वाद्ययाज्ययाजने व्यवतिष्ठते । तत्र कामतखैमासिकम् अकामतस्तु योगीश्वरोत्तं मासत्रतादि । यत्तु प्रचेतसा शूद्रयाजकादीन्पठि त्वोक्तम्-‘एते पञ्चतपोभ्रावकाशजलशयनान्यनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहे मन्तेषु मासं गोमूत्रयावकमश्रीयुः' इति तत्कामतोऽभ्यासविषयम् । यत्तु यमेनोक्तम्—‘पुरोधाः शूद्रवर्णस्य ब्राह्मणो यः प्रवर्तते । जेहाद्दुर्थेप्रसङ्गाद्वा तस्य कृच्छो विशोधनम् ॥” इति, तद्दशक्तविषयम् । यच पैठीनसेिनोक्तम्-‘शूद्र याजकः सर्वद्रव्यपरित्यागात्पूतो भवति प्राणायामसहस्रषु दशकृत्वोभ्यस्तेषु’ इति, तदप्यकामतोऽभ्यासविषयम् । यत्त गौतमेनोक्तम्—‘निषिद्धमत्र प्रयोगे सहस्रवागुपतिष्ठदिति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्न प्रयोगे बहुशोऽभ्यस्ते प्राकृतं ब्रह्मचर्यमुपदिष्टं तत्कामतोऽभ्यासविषयम् । तथा यः स्वैवेदं विप्लावयति यश्च रक्षणक्षणोऽपि तस्करव्यतिरिक्त शरणागतमुपेक्षते सोऽपि संवत्सरं यवोदनं भुञ्जानः शुद्धयति । तत्र विश्वो नाम पर्वचाण्डाल १ नाध्यापयेद्य एता ख २ यस्तु वेदं ड