पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ याज्ञवल्क्यस्मृ का [ प्रायश्चित्ताध्यायः श्रोत्रावकाशाद्यनध्यायेष्वध्ययनम् । उत्कर्षहेतोरधीयानस्य किं पठसि नाशित त्वयेत्येवं पर्यनुयोगदानं वा विप्ावनमुच्यते । अतएवोत्तं स्मृत्यन्तरे–‘दत्ता नुयोगानध्येतुः पतितान्मनुरब्रवीत्' इति। यत्तु वसिष्ठनोक्तम् लशवश्रावणे त्रिरात्रं वाग्यता अनश्वन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्त पूता भवन्तीति विज्ञायते' इति । ‘एतेनैव गर्हिताध्यापकयाजका व्याख्याता दृक्षिणात्यागाच पूता भवन्तीति विज्ञायत' इति तडुद्धिपूर्वविषयम् । यत्तु षट्टः त्रिंशन्मतेऽभिहितम्--'चाण्डालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रमभो जनम्’ इति, तदबुद्धिपूर्वविषयम् । यदा सपॉद्यन्तरागमनमात्रं भवति न पुन स्तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम्--'सर्पस्य नकुलस्याथ अजमार्जारयो स्तथा । मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषित पुरुषस्यैडकस्यापि शुनो ऽश्वस्य खरस्य च । अन्तरागमने सद्यः प्रायश्चित्तमिदं शृणु त्रिरात्रमुपवासश्च त्रिरङ्खश्चाभिषेचनम् । ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशय पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्तोपपातकसाधारणप्राय श्चित्तानि पूर्ववज्ज्ञातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य अकारणपरित्यक्ता मातापित्रोर्गुरोस्त इत्यपाङ्गेयमध्ये पाठात्तन्निमित्तमपि प्रायश्चित्तं भवति यथाह मनुः ( ११॥२००)–“षष्टान्नकालता मार्स संहिताजप एव वा । होमाश्च शाकला निलयमपाङ्कानां विशोधनम् अपाङ्काश्च श्राद्धकाण्डे ‘ये तेनपतितङ्कीबाः’ इत्यादिवाक्यैर्दर्शिता विक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्त कथनावसरे कथितानि । अनन्तरं कन्याया दूषणमित्युक्तं तत्र च त्रैमासिक द्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविपये योज्यानि । आनुलोम्ये पुनर्मा सिकपयोशानं प्राजापत्यं वा सकामास्वनुलोमासु न दोषस्त्वन्यथा दम इति दण्डाल्पत्वदर्शनात् ॥ यत्तु शङ्गेनोक्तम्-‘कन्यादृषी सोमविक्रयी च कृच्छ्म ब्भक्षं चरेयाताम्’ इति यञ्च हारीतवचनम्-‘कन्यादूषी सोम विक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतन्नः कूटव्यवैहारी ब्राह्मणवृत्तिस्रो मिथ्याभिशंसी पतितसंव्यवहारी मित्रधुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोभ्राव शजलशयनान्यनुतिष्ठेयुग्रीष्मवर्षाहेमन्तेपु मासं गोमूत्रयावकमश्रीयुः' इति तदुभयमपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् ३दस्य तु वध एव । ‘दूषणे तु करच्छेद, उत्तमायां वधस्तथा’ इति वधदर्शनात् । परि विन्दैकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धवतलोपे चात्मार्थपाकक्रिया रम्भे मद्यपस्त्रीनिवेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्धद्यवस्थापनीयम् आद्ययोस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शि तानि । अनन्तरं स्वाध्यायत्याग इत्युक्तं तत्र व्यसनाशक्या त्यागे अधीतस्य च नाश नमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् शाखश्रवणाद्याकुलतया त्यागे तु त्रैमासिका १ श्राद्धप्रकरणे ङ. २ कृच्छूमब्दं ड. ३ क्रूटव्यवहारी मित्रधक ख. ४ प