पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्याय दंतांस्तथा चैकशफानपि । ओष्ट्र गंव्यं तथा जग्ध्वा षण्मासान्वतमाचरेत् ॥ इति, तत्कामतोऽत्यन्ताभ्यासविषयम् । यत्तु स्मृत्यन्तरोक्तम् नराणां च वेिङ्कराहं खरं तथा । गवाश्वकुञ्जरोष्ट्राणां सर्व पाञ्चनखं तथा क्रव्यादं कुकुटं ग्राम्यं कुर्यात्संवत्सरत्रतम् ॥' इति, तदत्यन्तानवच्छिन्नाभ्यास अत्र प्रकरणे मूत्रपुरीषग्रहणं वसाशुक्रासृङह्मज्जानामुपलक्षणम् । कर्णवेिट्रप्रभृतिमलषटे त्वर्ध कल्पनीयम् । केशादिषु पुनः षट्त्रंशन्मते विशेष उक्तः –“अजाविमहिषमृगाणां आम मांसभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रमज्ञानादुपवास’ इति । यत्त प्रचेतसोक्तम्-नखकेशमृलोष्टभक्षणेऽहोरात्रमभोजनाच्छुद्धिः' इति तदप्य कामतः सकृत्प्राशनविषयम् । यत्तु स्मृत्यन्तरवचनम्–‘केशकीटनखं प्राश्य मत्स्यकण्टकमेव व । हेमतसं घृतं पीत्वा तत्क्षणादेव शुद्धयति ॥' इति तन्मुख मात्रप्रवेशविषयम् ॥ यदा तु भाजनस्थमन्न केशादिदूषितं भवति तदा-‘अन्ने भोजनकाले तु मक्षिकाकेशदूषिते । अनन्तरं स्पृशेदापस्तञ्चात्रं भस्मना स्पृशेत् ।।' इति प्रचेतसाभिहितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः ॥ सूक्ष्मतरकृमि कीटास्थिभक्षणे पुनहरीतेन विशेष उक्त –‘कृमिकीटपिपीलिकाजलौकःपतङ्गा स्थिप्राशने गोमूत्रगोमयाहारस्रिरात्रेण विशुद्धयति’ इति । जलौको मत्स्यादिः । एवंचव पशुपतश्रिजलचरनरमांसादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि ग्रन्थगौरवभयात्प्रतिव्यक्ति न लिख्यते ॥ अथाशुचिसंस्पृष्टभक्षणे प्रायश्चित्तं तत्र तावदुच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः । (११॥१५९)-‘बिडालकाकाखूच्छिष्ट जग्ध्वा धनकुलस्य च । केशकीटावपन्न च पिबेब्राह्मीं सुवर्चलाम् ॥' इति कालविशेषानुपादानादेकरात्रम्। इदं च कामतो द्रष्टव्यम् । यत्तु विष्णुनोक्तम् *पक्षिश्वापदजग्धस्य रसस्या न्नस्य भूयसः । संस्काररहितस्यापि भोजने कृच्छ्पादकम् ॥” इति, तत्कामकार विषयम् । संस्कारैश्च मानवे देवद्रोण्यामित्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत्तु शातातपेनोक्तम्--'श्वकाकाद्यवलीढशशूद्रोच्छिष्टभोजने त्वतिकृच्छ् इति, तद्कामतोऽभ्यासविषयम् । यत्तु शङ्गेन–‘शुनामुच्छिष्टक मासमेकं ब्रवती भवेत् । काकोच्छिष्टं गवा भ्रातं भुक्त्वा पक्ष ब्रती भवेत् ॥' इति यावकवतमुक्तं, तत्कामतोऽभ्यासविषयम् । ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्वि ष्णुनोत्तै-‘ब्राह्मणः शूद्रोच्छिष्टाशने सप्सरात्रं पञ्चगव्यं पिबेत् वैश्योच्छिष्टा शने पञ्चरात्रं राजन्योच्छिष्टाशने त्रिरात्रं ब्राह्मणोच्छिष्टाशने त्वेकाहम्’ इति , तत्का मकारविषयम् । यत्तु यमवचनम्—‘भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुद्धयति । भूभुजा सह भुक्त्वान्न तप्तकृच्छेण शुद्धयति ॥ वैश्येन सह भुक्त्वा जमतिकृच्छेण शुद्धयति । शूद्रेण सह भुक्त्वा चान्द्रायणमथाचरेत् ॥' इतेि तत्कामतोऽभ्यासविषयम् ॥ यत्पुनः शङ्कवचनम्-‘ब्राह्मणोच्छिष्टाशने महा याहृतिभिरभिमन्यापः पिबैक्षत्रियोच्छिष्टाशने ब्राह्मीरसविपकेन त्र्यहं क्षीरेण २ मास् मांसमिति पाठः. २ संस्कारश्र देवद्रोण्यां ख