पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४५७ अन्त्यजैः खानिताः कूपास्तडागा वाप्य एव वा । एषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्धयति ॥’ इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् । यत्वापस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमात्रं भक्ष्यमुक्तम्

  • प्रपास्वरण्ये घटके च सौरे द्रोण्यां जलं कोईशविनिर्गतं च । श्वपाकचण्डाल

परिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धछेत् ॥” इति, तदशक्तविषयम् । ‘प्रपां गतो विना तोयं शरीरं यो निषिञ्चति । एकाहक्षपणं कृत्वा सचैलं स्रानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥ अथ भावदुष्टभक्षणे प्रायश्चित्तम्-भावदुष्टं च यद्वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते । अरिप्रयुक्त गरलादिशङ्कायां वा । तत्र च पराशरः–“वाग्दुष्टं भावदुष्टं च भाजने भाव दूषिते । भुक्त्वात्रं ब्राह्मणः पश्चात्रिरात्रेण विशुद्धयति ॥' इति । एतत्कामकार विषयम् । यत्तु गौतमेन भावदुष्टं केवलमित्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्राय श्चित्तमुक्तम् —‘प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु—‘शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् । आहारशुद्धिं वक्ष्यामेि तन्मे निगदतः शशृणु ॥ अक्षारलवणां रूक्षां पिबेब्राह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥ पलाशबिल्वपत्राणि कुशान्पद्ममुदुम्बरम् । अपः पिबेत्क्राथयित्वा त्रिरात्रेण विशुद्धयति ॥’ इति वसिष्ठोत्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्कायामुक्तम् (५॥२१)-“संवत्सरस्यैकमपि चरेत्कृच्छ् द्विजोत्तमः । अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य तु विशेषतः ॥' इति ॥ अथ कालदुष्टभक्षणे प्रायश्चित्तम्—‘कालदुष्टं च पर्युषितानिर्दशगोक्षी रादि । तत्र चाकामत ‘शेषेधूपवसेदहः' इति मनूक्तं वेदितव्यम् । कामतस्तु केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपकं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्रहोक्तानि । अनिर्दश गोक्षीरादिषु प्रायश्चित्तं प्राकू प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राश नम्–“इङ्गस्थिदन्तजैः पात्रैः शङ्कशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्च गव्येन शुद्धयति ॥' इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः काले नवोदकं शुद्धं न पिबेच त्र्यहं हि तत् । अकाले तु दशाहं स्यात्पीत्वा इति स्मृत्यन्तरदर्शनात् चान्द्रायणम्–‘नवश्राद्धग्रामयाजकान्नसग्रहभोजने । नारीणां प्रथमे गर्भ भुक्त्वा चान्द्रायणं चरेत् ॥” इति शातातपस्मरणात् । यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्केतः तदाह मार्कण्डेयः-“चन्द्रस्य यदि चा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन्न पूर्वं भोजनक्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्त मुपागते । यावत्स्यान्नोदयस्तस्य नाश्रीयात्तावदेव तु ॥' तथा-‘ग्रहणं तु भवे १ कोशविनिःसृतं वा ड