पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५1 मिताक्षरासहिता । गव्येन शुद्धयति’ इति क्रतूत्तं विज्ञेयम् । धमनदुष्टेऽपि-‘आसनारूढपादो वा वस्रार्धप्रावृतोऽपि वा । मुखेन धमितं भुक्त्वा कृच्छू सान्तपनं चरेत् ॥’ इति तेनै वोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु “भुङ्गे चेत्पावर्णश्राद्धे प्राणायामान्षडा चरेत् । उपवासस्रिमासादिवत्सरान्तं प्रकीर्तित ॥ प्राणायामत्रयं वृद्धावहोरात्रं सपिण्डने । असरूपे स्मृतं नत्तं ऋतपारणके तथा ॥ द्विगुणं क्षत्रियस्यैतत्रिगणे वैश्यभोजने । साक्षाचतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ तिष्ठति द्वारि ह्यपः प्राश्चन्ति ये द्विजाः । रुधिरै तद्भवेद्वारि भुक्त्वा चान्द्रायणं चरेत् ॥’ इति भारद्वाजोक्तमवगन्तव्यम् । हारीतेनाप्युक्तम्“एकादशाहे भुक्त्वात्रं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयाद्वतम् ।।' इति । विष्णु नाप्युक्तम्—‘प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तद्धं तु पञ्चगव्यं द्विमासिके ॥’ इति । इदं चापद्विषयम् । अनापदि तु–“चान्द्रायणं नव श्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्रेाजापत्यं विधीयते ॥’ इति हारीतोक्तं द्रष्टव्यम् । प्राजापत्यं तु मिश्रके इत्येतदाद्यमासेिकविषयं द्रष्टव्यम् । द्वितीयादिषु तु -‘प्राजापत्यं नवश्राद्धे पदोनं चाद्यमासिके । त्रैपक्षिके तदर्ध स्यात्पादो द्वैमासिके तथा । पादोनकृच्छूमुद्दिष्टं षण्मासे च तथाब्दिके । त्रिरौत्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥’ इति षट्त्रंशन्मतोत्तं द्रष्टव्यम् । क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः–“चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः ॥ क्षत्रियस्य नवश्राद्धे बतमेतदुदाहृतम् । वैश्यस्यार्धाधिक प्रोक्तं क्षत्रियांतु मनीषिभिः. ॥ शूद्रस्य तु नवश्राद्धे चरेचान्द्रायणद्वयम् । सार्ध चान्द्रायणं मासे त्रिपक्षे त्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूध्वं सान्तपनं स्मृतम् ॥’ इति । यत्तु शङ्ख वचनम्–“चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पक्षत्रयेऽतिकृच्छ् स्यात्षण्मासे कृच्छू एव तु ॥ आब्दिके पाद्कृच्छूः स्यादेकाहः पुनराब्दिके । अत ऊध्र्व न दोषः स्याच्छङ्कस्य वचनं यथा ॥” इति, तत्सपदिहतविषयम् ।–“ये खेतेनाः पतिताः कुीबा' इत्याद्यपाङ्गेयविषयं वा ॥-“चण्डालादुदकात्सपब्राह्मणा द्वैडद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतनानाशकैचैव विषो. द्वन्धनकैस्तथा । भुक्त्वैषां षोडशश्राद्धे कुर्यादेन्दुव्रतं द्विजः ॥’ इति । तथा--- अपाङ्गेयान्प्रदुद्देिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वान्न शिशुचान्द्रायणं चरेत् ॥' इति ।-“आमश्राद्धे तथा भुक्त्वा तत्सकृच्छेण शुद्धयति । संकल्पिते तथा भुक्तवा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ॥ ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह--'मासिकादिषु योऽश्नीयादसमासं व्रतो द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वाः घृतं प्राश्य विशुद्धयति ॥' इति । इदमज्ञानविषयम् । कामतोऽपि स एवाहं ‘मधु मांसं तु योऽश्रीयाच्छूाद्धे सूतक एवं वा । प्राजापत्यं चरेत्कृच्छू व्रतशेषं १ मासिके ङ. २ प्रायश्चित्तं ङ. ४५९ ३ द्विरात्रमिति पाठान्तरम्