पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः षटूत्रिंशन्मत एवोक्तम्-‘उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अत्रं भुक्त्वा द्विजः कुर्यात्परार्क तु विशोधनम् ॥’ इति । इदं चाभक्ष्यभक्षणप्रायश्चित्त. काण्डगतमविशेषोदितव्रतकदम्बकं हि द्विजाग्रयस्यैव । क्षत्रियादीनां तु पादपाद. हान्या भवति । ‘विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्ध पाद एकस्तु शूद्वजातिषु शस्यते ॥' इति विष्णुस्मरणात् ॥ इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् । निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः (११।१२४-१२५)–‘जातिभ्रंशकरै कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छू प्राजापत्यमनिच्छया ॥ संकरा पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तसः स्याद्यावकरूयहम् ॥ इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्त --- संकरीकरणं कृत्वा मासमश्नाति यावकम् । कृच्छूातिकृच्छूमथवा प्रायश्चित्तं समाचरेत् । ॥ अपात्रीकरणं कृत्वा तसकृच्छेण शुद्धयति । शीतकृच्छेण वा शुद्धिर्महासान्तपनेन वा । मलिनीकरणीयेपु तसकृच्छू विशोधनम् ॥' इति ॥ बृहस्पतेिनापि जातिभ्रंशकरे विशेष उक्तः-‘ब्राह्मणस्य रुजः कृत्वा रासभादि प्रमापणम् । निन्दितेभ्यो धनादानं कृच्छार्ध व्रतमाचरेत् ॥’ इति । एतेषां च. जातिभ्रंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्तयाद्यपेक्षया विषयो विभज नीयः । एवं योगीन्द्रह्मद्वतमभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥२८९॥ अधुना प्रकृतमनुसरराम –“महापातकमतिपातकमनुपातकमुपपातकं प्रकीर्ण कमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधप्रायश्चित्तमभिधाय क्रमप्रासे प्रकीर्णके प्रायश्चित्तमाह प्राणायामी जले स्रात्वा खरयानोष्ट्रयानगः । नमः स्रात्वा च भुक्त्वा च गत्वाचैव दिवा त्रियम्।॥२९०॥ खरयुक्तं यानं खरयानम्। उष्ट्रयुक्त यानमुष्ट्रयानं रथगञ्यादि तेनाध्वगमनं कृत्वा दिगम्बरः स्नात्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागातरङ्गिण्यादाववगाह्य कृतप्राणायामः शुद्धयति । इदं च कामकारविषयम् । ( ११॥२०१)-‘उष्ट्रयानं समारुह्य खरयानं तु कामतः । सवासा जलमापुत्य प्राणायामेन शुद्धयति ॥' इति मनुस्मरणात् । अकामतः ज्ञानमात्रं कल्प्यम् । साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया । तस्य गुरुत्वात् ॥ २९० ॥ गुरुं हुंकृत्य त्वंकृत्य विग्रं निर्जित्य वादतः । बध्वा वा वाससा क्षिप्रै प्रसाद्योपवसेद्दिनम् ।। २९१ ।। --किंच । गुरुं जनकादिकं त्वंकृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म