पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४६३ च्छब्दोच्चारणेन निर्भत्र्य विग्रं वा यायांसं समं कनीयांसं वा सक्रोध हुं तूष्णी मास्व, हुं मा बहुवादीः, इत्येवमाक्षिप्य जल्पवितण्डाभ्यां जयफलाभ्यां वेिशं निर्जित्य कण्ठे वाससा मृदुस्पर्शनापि बध्वा क्षिप्रै पादप्रणिपातादिना प्रसाद्य क्रोधं त्याजयित्वा दिनमुपवसेत् । अनश्चन्कृत्खं वासरं नयेत् ॥ यत्तु यमेनोक्तम् ‘वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया । त्रिरात्रोपोषितः स्रात्वा प्रणिपत्य प्रसादयेत् ॥' इति तदभ्यासविषयम् ॥ २९१ ॥ वेिप्रदण्डोद्यमे कृच्छस्त्वतिकृच्छो निपातने । कृच्छातिकृच्छेोऽसृक्पाते कृच्छोऽभ्यन्तरशोणिते ॥२९२॥ विप्रजिघांसया दण्डाद्युद्यमे कृच्छूः शुद्धिहेतुः । निपातने ताडने अतिकृच्छूः । असृक्पाते रुधिरस्रावणे पुनः कृच्छ्ातिकृच्छ् । अभ्यन्तरशोणितेऽपि कृच्छ् शुद्धिहेतुः ॥ बृहस्पतिनाप्यत्र विशेष उक्त –काष्ठादिना . ताडयित्वा त्वभेदे कृच्छूमाचरेत् । अस्थिभेदेऽतिकृच्छूः स्यात्पराकस्त्वङ्गकर्तने ॥’ इति । पादप्रहारे तु यम आह–“पादेन ब्राह्मणं स्पृष्टा प्रायश्चित्तविधित्सया । दिवसोपोषित स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति ॥ मनुना त्वन्यानि प्रकीर्णकप्रायश्चित्तानि दशैितानि (११।२०२)–“विनाद्भिरप्सु वाप्यातैः शारीरं संनिषेव्य तु । सचैलो बहिरासुत्य गामालभ्य विशुद्धयति ॥' इति । विनाद्भिरित्यसंनिहितास्व पीत्यर्थः । शारीरं मूत्रपुरीषादि । इदमकामविषयम् । कामतस्तु–“आपद्वतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा सैचैलो जलमाविशेत् ॥ इति यमोत्तं वेदितव्यम् । यत्तु सुमन्तुवचनम्–“अप्स्वौ वा मेहतस्तप्त कृच्छ्म्’ इति तदनार्तविषयमभ्यासविषयं वा ॥ नित्यश्रौतादिकर्मलोपे तु मनु राह (११।२०३)–“वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकत्रत लोपे च प्रायश्चित्तमभोजनम् ॥’ इति । श्रौतेषु दशैपैौर्णमासादिकर्मसु स्मार्तेषु चानित्यहोमादिषु प्रतिपदोत्क्तष्ठयादिप्रायश्चित्तैरुपवासस्य समुच्चयः । स्नातक बतानि च–“न जीर्णमलवद्वासा भवेच्च विभवे सति’ इत्येवमादीनि प्रागुक्तानि । स्रातकव्रतमधिकृत्य ऋतुनाप्युक्तम्—‘एतेषामाचाराणामेकैकस्य व्यतिक्रमे गाय यष्टशतं जप्यं कृत्वा पूतो भवति' इति ॥ पञ्चमहायज्ञाकरणे तु बृहस्प तिराह्व–“अनिर्वत्र्य महायज्ञान्यो भुङ्गे प्रत्यहं गृही । अनातुरः सति धने कृच्छ्धे न विशुद्धयति ॥ आहिताग्रुिपस्थानं न कुयाद्यस्तु पवाण । ऋएता न गाच्छेद्भार्या वा सोऽपि कृच्छ्ार्धमाचरेत् ॥’ इति । द्वितीयादिभायपरमे तु देवल आह–‘मृतौ द्वितीयां यो भार्या दहेद्वैतानिकाझिभिः । जीवन्त्यां प्रथ मायां तु सुरापानसमं हि तत् ॥’ इति । स्वभार्याभिशंसने तुयम आह-‘स्वभार्या तु यदा क्रोधाद्गम्येति नरो वदेत् । प्राजापत्यं चरेद्विप्रः क्षत्रियो दिवसान्नव ॥ षड्रात्रं तु चरेद्वैश्यत्रिरात्रं शूद्र आचरेत् ॥' इति ॥ १ ‘कृच्छद्रशेऽल्पतरशोणिते’ इति पाठान्तरेऽल्पतरशोणितेऽपि कृच्छूः शुद्धिहेतुरिति ज्ञेयम्. २ संनिवेश्य च इति पाठ . ३ ‘सचेल: खानमाचरेत' ङ