४६४ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः अस्रानभोजनादौ हारीत आह-‘वहन्कमण्डलु रिक्तमस्रातोऽश्झैश्च भोज नम् । अहोरात्रेण शुद्धिः स्याद्दिनजप्येन चैव हि ॥’ इति । एकपङ्कयुपविष्टानां स्नेहादिना वैषम्येण दानादौ यम आह्व-‘न पङ्कयां विषमं दद्यान्न याचेत न जापयेत् । याचको दापको दाता न वै स्वर्गस्य गामिनः ॥ प्राजापत्येन कृच्छेण मुच्यते कर्मणस्ततः ॥ नदीसंक्रमहन्तुश्च कन्यावेिन्नकरस्य च ॥ समे विष मकर्तुश्च निष्कृतिनोपपद्यते । त्रयाणामपि चैतेषां प्रत्यापत्तं च मार्गताम् । भैक्ष लब्धेन चान्नेन द्विजश्चान्द्रायणं चरेत् ॥' इति । संक्रम उदकावतरणमार्गः । समे विषमकर्ता पूजादौ । इन्द्रधनुर्दर्शनादावृप्यशशृङ्ग आह –*इन्द्रचापं पला शाझिं यदन्यस्य प्रदर्शयेत् । प्रायश्चित्तमहोरात्रं धनुर्दण्डश्च दक्षिणा ॥' पति तादिसंभाषणे तु गौतम आह–“न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत तल्पान्नधनला भवधे पृथग्वर्षाणि’ इति । भार्यान्नधनानां लाभस्य वधे विश्वकरणे प्रत्येकं संव त्सरं प्राकृतं ब्रह्मचर्यम् ॥ तथा—‘ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ स्मृत्य न्तरे प्रायश्चित्तमुक्तम्’–विना यज्ञोपवीतेन यद्युच्छिष्टो भवेद्विज । प्रायश्चित्त महोरात्रै गायत्र्यष्टशतं तु वा ॥' तत्र ऊध्वोच्छिष्ट उपवासः अधरोच्छिष्टस्योदक पानादिषु गायत्रीजप इति व्यवस्था । अकामतस्तु-पिबतो मेहतश्चैव भुञ्ज तोऽनुपवीतिन । प्राणायामत्रिकं षझं नत्तं च त्रितयं क्रमात् । ॥' इति स्मृत्य न्तरोक्तं द्रष्टव्यम् ॥ भुक्त्वा शीचाचमनमकृत्वोत्थाने तु –‘यद्युत्तिष्ठत्य नाचान्तो भुक्त्वा वानशनात्तत । सद्यःस्नानं प्रकुवत सोऽन्यथा पतितो भवेत् ॥’ इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ चैोराद्युत्सर्गादौ वसिष्ठ आह-‘दण्डो त्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छ्मदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा कुनखी श्यावदन्तश्च कृच्छं द्वादशदरात्रं चरित्वोद्धरेरयाताम्’ इति । उद्धरेयातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्यातामित्यर्थः । स्तेनपतितादिपङ्गि भोजने तु मार्कण्डेय आह--*अपाङ्गेयस्य यः कश्चित्पङ्गौ भुझे द्विजोत्तमः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुछद्यति ॥' इति ॥ नीलीविषये त्वापस्तम्ब आह-‘नीलीरतं यदा वस्त्रं ब्राह्मणोऽङ्गेपु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्यति ॥ रोमकूपैर्यदा गच्छेदसो नील्यास्तु कस्यचित् । त्रिषु वर्णेषु सामान्यं तसकृच्छं विशोधनम् ॥ पालनं विक्रयश्चैव तदृत्या चोपजीवनम् । पातनं च भवेद्विस्त्रिभिः कृच्छेब्र्यपोहति ॥ नीलीदारु यदा भिन्द्याद्राह्मणस्य शरीरत९ । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥ स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥' इति । भृगुणाप्युक्तम्-‘स्रीध्टता शयने नीली ब्राह्मणस्य न दुष्यति । नृपस्य वृद्धौ वैश्यस्य पर्वज्यै विधारणम्’ इति ॥ तथा वस्रविशेषकृतश्च प्रतिप्रसवः–‘कम्बले पट्टसूत्रे च नीलीरागी न दुष्यति ॥’ इति स्मरणात् ॥ ब्रह्मतरुनिर्मितखद्वाद्यारोहणे शङ्ख आह १ निष्कृतिर्न विधीयते इति पाठः. २ प्राजापत्यं तु मार्गणमिति पाठ . ३ त्रिवर्णेषु । सामान्यं ङ. ४ भवेद्विप्रे त्रिभिः ड.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति