पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विवाहप्रकरणम् .३ ]
१९
मिताक्षरासहेिता ।

च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । अक्षता पुनः संस्कार दूषिता । या पुनः कौमारे पतिं त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरि णीति ॥६७ ॥ एवं सर्वप्रकारेणान्यपूर्वापर्युदासे प्रासे विशेषमाह-

आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ।।
आगर्भसंभवाद्भच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ।।

अपुत्रामलब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्त सर्वाङ्गः ऋतावेव वक्ष्यमाणलक्षणे इयाद्भच्छेत् आगभत्पत्तेः । ऊध्र्व पुनर्गच्छन् अन्येन वा प्रकारेण तदा' पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतु क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । * यस्या त्रियेत कन्याया वाचवा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्द्वेत देवरः । इति (९॥६९) मनुस्मरणात् ॥ ६८ ॥ ६९ ॥ व्यभिचारिणीं प्रत्याह-

हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूतामधःशय्यां वासयेच्द्यभिचारिणीम् ।। ७० ।।

या व्यभिचरति तां ह्यताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलेिनाँ अञ्जनाभ्यञ्जनशुभ्रवस्त्राभरणशून्याम् । पिण्डमात्रोपजीविनीं प्राणयात्रामात्र भोजनाम् । धिकारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्यजननार्थ न पुनः शुद्धयर्थम् । “यत्पुंसः परदारेषु तचैनां चारयेङ्कतम्’ इति पृथक्प्रायश्चित्तोपदेशातू ॥ ७० ॥ तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह-

सोमः शौचं दैदावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो. ह्यतः ।। ७१ ।।

परिणयनात्पूर्व सोमगन्धर्ववह्नयः स्त्रीर्मुक्त्वा यथाक्रमं तासां शौचमधुरवच नसर्वमेध्यत्वानि दत्तवन्तः । तस्मात्स्त्रियः सर्वत्र स्पशलिङ्गनादिषु मेध्या: शुद्धाः स्मृताः ॥ ७१ ॥ नच तस्यास्तहिं दोषो नास्तीत्याशङ्कनीयमित्याह-

व्यभिचारादृतौ शुद्धिर्गभे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ ७२ ॥


१ ददौ स्त्रीणां क. २ स्रियो भुक्त्वा क . या० ५