४६६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः ब्दिकं प्रायश्चित्तमुपदिश्यते तदा प्राणा विपद्येरन्निति ततोऽन्यवयस्के तत्प्रा यश्चित्तं कल्प्यम् । अतएव स्मृत्यन्तरे ‘कचिदर्ध कचित्पादः’ इति वृद्धादिषु प्रायश्चित्तस्य हासोऽभिहितः तच प्राक्प्रपञ्चितम् । तथा धनदानतपश्चरणादिश तयपेक्षया च नहि निर्धनस्य पात्रे धनं वा पर्याप्तमित्याद्युपपद्यते । तथोद्रिक्तपित्ता. देर्वा पराकादिकं नापि स्रीशूद्रादेर्जपादिकम्। अतएव ‘गजादीनामशत्रुकुवन्। दानं दातुं चरेत्कृच्छूमेकैकस्य विशुद्धये' इत्युक्तम् । तथा ‘प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च' इति तपस्यशक्तस्य स्मृत्यन्तरे प्रायश्चित्तस्य हासोऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यतः सकलधर्मशास्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यद्वि हितं तदेव कामकृते द्विगुणं कामतोऽभ्यासे चतुर्गुणमित्येवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा –“महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत’ इत्युक्तं, तत्र महापापोपपापयोस्तुल्यप्रायश्चित्तस्यायुक्तत्वान्महा पापापेक्षयोपपातके मासिकत्रतस्य हासः कल्पनीयः । यत्र च हसितम्भिर्भ ताक्रन्दितास्फालनादिनाकस्मात्कुर्यात्तथा । ‘नोदन्वतोऽम्भसि स्रायान्न च श्मश्रवादि कर्तयेत् । अन्तर्वत्याः पतिः कुर्वन्नप्रजा भवति ध्रुवम् ॥’ इत्यादौ प्रायश्चित्तं नोपदिष्टं तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् ॥ ननु किंचिदपि निमित्तजातमनुक्तनिष्कृतिकमुपलभ्यते—‘प्राणायामशतं कार्य सर्वपापापनुत्तये. उपपातकजातानामनादिष्टस्य चैव हि। ॥' इत्यनुक्तनिष्कृतिष्वपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् ॥ गौतमेनाप्येतान्येवानादेशे विकल्पेन क्रियेरन्नित्येकाहाद्य प्रतिपादिताः । उच्यते । सत्यमस्येव सामान्यतः प्रायश्चित्तोपदेशस्तथापि सर्वत्र देशकालादीनामपेक्षितत्वादस्त्येव कल्पनावसरः । नच हसितादिषु सर्वत्र प्राणा यामशतं युक्तम् । निमित्तस्य लघुत्वात् । अतः पापापेक्षया हासः कल्पनीय प्रायश्चित्तान्तरं वा । ननु कथं पापस्य लघुत्वं येन प्रायश्चित्तस्य हासकल्पना स्यात् । नच प्रायश्चित्ताल्पत्वादिति वाच्यम्। अनुक्तनिष्कृतित्वादेव । सत्यम् । किंतु अर्थवादः संकीर्तनाडुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलधुभावः । तथा दण्डहासवृद्धयपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ सजातीयविषये प्राजापत्यादिकमुक्तम्, तत्र यदा चानुलोम्येन प्रातिलोम्येन वावगो रणादि क्रियते, यदा वा मूर्धावसिक्तादिभिस्तदा दण्डस्य तारतम्यदर्शनादेव दोषा ल्पत्वमहत्त्वावगमात्प्रायश्चित्तस्यापि गुरुलधुभावः कल्पनीयः । दर्शितश्च दण्डस्य गुरुलघुभावः ‘प्रातिलोम्यापवादेषु द्विगुणस्त्रिगुणो दमः’ इत्यादिना ॥ २९३ ॥ एवं महापातकादिभिः पतितस्य प्रायश्चित्तमुक्त, यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्यमित्यत आह दासीकुम्भं बहिग्रमान्निनयेरन्खबान्धवाः । पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ।। २९४ ।। १ कृम्भितास्फोटनानि ङ. २ दर्शनाद्दोषाल्पत्व ख
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति