पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । १ बान्धवैः सह डङ जीवत एव पतितस्य ये स्वा ज्ञातयो बान्धवाः पितृमातृपक्षाते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतमपां पूर्ण कुम्भं घटं ग्रामाद्वहेि र्निनयेयुः । एतचतुथ्र्यादिरिक्तातिथिष्वह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम् । ( ११।१८२)–‘पतितस्योदकं कार्य सपिण्डेबन्धवैर्बहि निन्दितेऽहनि सायाहे ज्ञात्वृत्विग्गुरुसन्निधौ ॥' इति मनुस्मरणात् ॥ अथवा दास्येव सपिण्डा दिप्रयुक्ता नियेत् । यथाह मनुः ( ११।१८३)-‘दासी घटमपां पूर्ण पर्य येत्प्रेतवत्पदा । अहोरात्रमुपासीरन्नशौचं बान्धवैः सह इति । प्रेतवदिति दक्षिणामुखापसव्ययोः प्रात्यर्थम् । तच निनयनमुदकपिण्डदानादिप्रेतक्रियोत्तः रकालं द्रष्टव्यम् । तस्य विद्यागुरुयोनिसंबन्धाश्च संनिपत्य सर्वाण्युदकादीनि प्रेत कर्माणि कुर्युः पात्रं चास्य विपैयैसेययुः । दासः कर्मकरो वाऽवकरात् पात्रमानीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्ययेत् अमुमनुदकं करोमेि इति नामग्राहं तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनिसंबन्धाश्च वीक्षेरन् अप उपस्पृश्य ग्रामं प्रविशेयुः’ इति गौतमस्मरणात् । अयं च त्यागो यदि बन्धुभिः प्रेर्यमाणोऽपि प्रायश्चित्तं नं करोति तदा द्रष्टव्यः । तस्य गुरोबन्धवानां राज्ञश्च समक्ष दोषानभिख्याप्यानुभाष्य पुनःपुनराचारं लभस्वेति, स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येदिति शङ्क ततस्तं लब्धोद्दुकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहेि कुर्युर्वर्जयेयुः । तथाच मनुः ( ११।१८४)-निवर्तेरंस्ततस्तस्मात्संभाषणस हासन्न दायाद्यस्य प्रदानं च यात्रामेव च लौकिकीम् ॥' इति यदि खेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । अत ऊध्र्व तेन संभाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वं ज्ञानपूर्वं चेत्रिरात्रं' इति ॥ २९४ । यदा तु ब धुत्यागादन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं तदा किं कार्यमित्यत आहः चरितव्रत आयाते नियेरनवं घटम् । जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः ।। २९५ ।। कृतप्रायश्चित्त बन्धुसमीपं पुनरायाते तत्सपिण्डाद्यास्तेन सहिता नवं अनुपहतं घटं उदकपूर्ण नियेयु एतच निनयनं पुण्यहदादिरुनानोत्तरकालं द्रष्टव्यम् । (११।१८६)—‘प्रायश्चित्ते तु चरिते पूर्ण कुम्भमपां नवम् । तेनैव सार्ध प्रायेयु स्रात्वा पुण्ये जलाशये ॥' इति मनुस्मरणात् । गौतमेन तु विशेष उक्त

  • यस्तु प्रायश्चित्तेन शुद्धयेत्तस्मिन् शुद्धे शातकुम्भमयं पात्रे पुण्यतमात् हदात्पूर

यित्वा स्रवन्तीभ्यो वा तत एनमप उपस्पर्शयेयुरथासै तत्पात्रं दद्युस्तत्संप्रतिगृह्य जपेत् ‘शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्ष यो रोचनस्तमिह गृह्णामि’ इत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डैश्चाज्यं जुहुयाद्धिरण्यं दद्याद्रां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुद्धयेदेतदेव ४६७