पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मेिताक्षरासहिता । ४६९ एवं प्रसङ्गेन खीषु विशेषमभिधाय प्रकृत एव चरितवतवेिधौ विशेषमाह घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । प्रदद्यात्प्रथमं गोभिः सत्कृतस्य हेि सत्क्रिया ॥ २९ ॥ घटेऽपवर्जिते हदादुद्धृत्य पूर्वे कुम्भेऽवनिीतेऽसौ चरितव्रतः सपिण्डादिम ध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज्ज्ञातिभि सत्क्रिया कार्या । गोभिश्च तस्य सत्कारस्तद्दत्तयवसभक्षणमेव । यदि गावस्तद्दत्तं यवसं न गृह्णीयुस्तर्हि पुनः प्रायश्चित्तमनुतिष्ठत् । यदाह हारीतः-“स्वशिरसा यवसमादाय गोभ्यो दद्याद्यदि ताः प्रतिगृह्णीयुरथैनं प्रवर्तयेयुः' इतरथा नेत्यभि प्रतम् ॥ २९९ ॥ महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकत्रतसंदोहमभिधायाधुना सकल ऋतसाधारणं धर्ममाह विख्यातदोषः कुर्वीत पर्षदोऽनुमतं ब्रतम् । यो दोषो यावत्कर्तृसंपाद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुप दिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षत्समीपमु पगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गिरसा विशेष उक्तः-‘कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।. भुञ्जानो वर्धयेत्पापं यावन्नाख्याति पर्षदि । सचैलं वाग्यतः स्रात्वा कुिन्नवासाः समाहितः । पर्षदा नुमतस्तत्त्वं सर्वं विख्यापयेन्नरः । व्रतमादाय भूयोऽपि तथा स्रात्वा त्रतं चरेत् । इति ॥ विख्यापनं च पर्षद्दक्षिणादानानन्तरं कार्यम् । यथाह पराशरः–“पापं विख्यापयेत्पापी दत्त्वा धेर्नु तथा वृषम्’ इति । एतच्चोपपातकविषयम् । महा पातकादिष्वधिकं कल्प्यम् यत्तूक्तम्-“तस्माद्विजः प्राप्तपापः सकृदालुत्य वारिणि । विख्याप्य पापं पर्षन्द्यः किंचिद्दत्वा व्रतं चरेत् ॥' इति तत्प्रकीर्णक विषयम् । पर्षत्स्वरूपं च मनुना दर्शितम्—‘त्रैविद्यो हैतुकस्तक नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदेषा दशावरा ॥' हैतुको मीमांसार्थादित त्वज्ञः । तक न्यायशास्रकुशलः । तथान्यदपि पर्षद्वयं तेनैव दर्शितम्--'ऋग्वेद विद्यजुर्विच सामवेदवेिदेव च । अपरा पर्षद्विज्ञेया धर्मसंशयनिर्णये ॥’ इति । तथा–“एकोऽपि वेदविद्धर्म यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मो नाज्ञा नामुदितोऽयुतैः ॥' इति । आसां च पर्षदाँ संभवैवापेक्षया व्यवस्था महापात काद्यपेक्षया वा ॥ यत्तु स्मृत्यन्तरेऽभिहितम्—‘पातकेषु शतं पर्षत्सहस्र महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥” इति, तदपि महापा तकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः संख्यानियमार्थम् । मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शित १ विख्यातपापं वक्तृभ्य इति ङ . २ निरुक्तो ङ. ३ एकोऽपि धर्मविद्धर्भमिति पाठः