पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्याय स्वयं तु ब्राह्मणा ब्रूयुरल्पदोषेपु निष्कृतिम् । राजा च ब्राह्मणाश्चैव महत्सु च परीक्षितम् ॥' इति तर्या च पर्षदा अवश्यं व्रतमुपदेष्टव्यम्–“आतीनां मार्ग. माणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥’ इत्यङ्गिरःस्मरणात् । तैया पर्षदा ज्ञात्वैव ब्रतमुपदेष्टव्यम्–“अज्ञात्वा धर्मशास्राणि प्रायश्चित्तं ददाति य । प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदं व्रजेत् । ॥' इति वसिष्ठस्मरणात् ॥ क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः–‘न्यायतो ब्राह्मणः क्षिप्रै क्षत्रियादेः कृतैनस । अन्तरा ब्राह्मणं कृत्वा ब्रतं सर्व समादिशेत् । तथा शूद समासाद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ।।' इति । तत्र च यागाद्यनुष्टानशीलानां जपादिकं वाच्यम् । इतरेषां तु तपः । ‘कर्मनिष्टास्तपोनिष्ठाः कदाचित्पापमागताः । जप होमादिकं तेभ्यो विशेषेण प्रदीयते ॥ ये नामधारका विप्रा मूर्खा धनविवर्जिताः । कृच्छूश्चान्द्रायणादीनि तेभ्यो दद्याद्विशेपतः ।।' इति प्रकाशप्रायश्चित्तप्रकरणम् । व्याख्याय ख्यातदुरितशातनीं ववसंवातिम् । रहःकृताघसंदोहारिणीं व्याहरन्मुनि ॥ तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्ममाह अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३० ॥ कर्तृव्यतिरितैरनभिख्यातो दोपो यस्यासौ रहस्यमप्रकाशं प्रायश्चित्तमनुति ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात् तदितरैरविज्ञातदोषस्य रहः स्यत्रतमिति मन्तव्यम् । अत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस्तदा परस्मिन्नवि भाव्य स्वनिमित्तोचितं प्रायश्चित्तमनुतिष्ठत् । यस्तु स्वयमनभिज्ञोऽसौ केनचिद्रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनावगम्य रहोत्रतम नुतिष्ठेत् । अतएव स्त्रीशूद्वयोरप्यमुनैव मार्गेण रहस्यवतज्ञानसिद्धेरधिकार सिद्धिः । नच वाच्यं रहस्यन्वतानां ज पादिप्रधानत्वादविद्ययोश्च स्रीशूद्रयोस्तदनु पपत्तेरनधिकार इति । यतोऽनेकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम् । दाना देरप्युपदेशात् गौतमोक्तप्राणायामादेरपि संभवाञ्च । इतरेषामपि मघ्रदैवतर्षि च्छन्दःपरिज्ञानमात्रमेवाधिकारोपयोगेि न त्वन्यविषयम् । नहि तडागनिर्माणादौ योतिष्टोमादिविषयिणी प्रतिपत्तिरुपयुज्यते । देवतादिपरिज्ञानं त्ववश्यमपेक्षणी यम् ।–‘अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापयेजपेद्वापि पापीयाञ्जायते तु सः ॥’ इति व्यासस्मरणात् ॥ अत्राप्याहारविशेषानुक्तौ पयःप्रभृतयः, कालविशेषानुक्तौ संवत्सरादयः, देशविशेषानुक्तौ शिलोच्चयादयो गौतमाद्यभिहिताः प्रकाशप्रायश्चित्तवदन्वेषणीयाः ॥ ३० ॥ १ तथाच पर्षदा ख. २ तथाच ख