प्रायश्चित्तप्रकरणम्,५] मिताक्षरासहिता । ४७५ उपपातकसामान्यप्रासस्य प्राणायामशतस्यापवाद्माह ओङ्काराभिष्टुतं सोमसलिलं पावनं पिबेत् । कृत्वा हेि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ।। ३०६ ।। द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसमोङ्कारेणाभिमश्चितं शुद्धिसाधनं पिबेत् । एतचाकामकारविषयम् । कामतस्तु सुमन्तूक्तम्--'रेतोविण्मूत्रप्राशनं कृत्वा लशुनपलाण्डुगृञ्जनकुम्भिकादीनामन्येषां चाभक्ष्याणां भक्षणं कृत्वा हंस ग्रामकुकुटधसृगालादिमांसभक्षणं च कृत्वा ततः कण्ठमात्रमुदकमवतीर्य शुद्धव तीभिः प्राणायामं कृत्वा महाव्याहृतिभिरुरोगमुदकं पीत्वा तदेतस्मात्पूतो भव ती'ति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरमुक्तम् (११॥२५३)-
- प्रतिगृह्याप्रतिग्राह्य भुक्त्वा चान्न विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मान
वरुयहात् ॥' इति । अप्रतिग्राह्य विषशखसुरादि पतितादिद्रव्यं च । यदा त्वप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम्-*अप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्ष्यभुकू’ इति ॥ ३०६ ॥ अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तमाह निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३०७ ।। रजन्यां वासरे वा यत्प्रमादकृतं प्रकीर्णवकं मानसं वाचिकं चोपपातकं तत्सर्व प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथाच यमः
- यदह्मात्कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां संध्यां प्राणायामैर्नि
हन्ति तत् ॥' इति । शातातपेनाप्युक्तम्-अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान् चव संध्या बहिरुपासिता ॥' इति ॥ ३०७ ॥ अथ सवकलमहापातकादिसाधारणान्पवित्रमन्त्रानाह शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः । सर्वपापहरा ह्येते रुद्वैकादशिनी तथा ।। ३०८ ॥ शुक्रियं नाम आरण्यकविशेषः ‘विश्वानिदेव सवितः'इत्याद्विाजसनेयके पठ्यते अरण्यकं च यजुः ‘ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये' इत्यादि तत्रैव पठ्यते तयोर्जपः सकलमहापातकादिहरः । तथा गायत्र्याश्च महापातृकेषु लक्षमतिपातकोपपातक योर्दशसहस्रमुपपातकेषु सहस्त्रं प्रकीर्णकेषु शतमित्येवं विशेषतो जपः सर्वपापहरः । तथाच गायत्रीमधिकृत्य श्लोकः शङ्गेनोक्तः–‘शतं जसा तु सैवित्री महापातक नाशिनी । सहस्रजसा तु तथा पातकेभ्यः प्रमोचिनी ॥ दशसाहस्रजाप्येन सर्व किल्विषनाशिनी । लक्ष जसा तु सा देवी महापातकनाशिनी ॥ सुवर्णस्तेयकृद्विप्रेो बंह्महा गुरुतल्पगः । सुरापश्च विशुद्धयन्ति लक्ष जस्वा न संशयः ॥' इति । यत्तु १ चाभक्ष्यभक्षणं ख. २ सा देवी ड. ३ कल्मषनाशिनी ङ. या० ४३