पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

अप्रकाशितान्मनोव्यभिचारात्पुरुषान्तरसंभोगासंकल्पाद्यदपुण्यं तस्य ऋत्तो रजी दर्शने शुद्धिः । शूदकृते तु गर्भ त्यागः । मनुः (९॥१५५) ‘ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तन नेतराः ॥' इति स्मरणात् । तथा गर्भवधे भर्तृवधे महापातके च ब्रह्महत्यादौ आदिग्रहणाच्छि ष्यादिगमने च त्यागः । *चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिप्ती च विशेषेण जुङ्गितोपगता च या ॥” इति व्यासस्मरणातू । जुङ्गितः प्रतिलोम जश्चर्मकारादिः । त्यागाश्चोपभोगधर्मकार्ययोः नतु निष्कासनं गृहात्तस्याः । “निरु न्ध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥ द्वितीयपरिणयने हेतूनाह-

सुरापी व्याधिता धूर्ता वन्ध्यार्थझ्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ।। ७३ ।।

सुरां पिबतीति सुरापी शूद्रापि । “पतत्यर्ध शरीरस्य यस्य भार्या सुरां पिबेन्’ इति सामान्येन प्रतिषेधात् । व्याधिता दीर्वरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थझी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषेिणी । स्त्रीप्रसूः स्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारणी । अधिवेत्तव्येति प्रत्येकर्मभिसंब ध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योत्रिवर्गस्तत्र वर्धते ।। ७४ ॥

किंच । सा अधिविन्ना पूर्ववदेव दानमानसत्कारैरर्भर्तव्या । अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणो दण्डश्च । नच भरणे सति केवलमपुण्यपरिहारः । यत यत्र दंपत्योरानुकूल्यं वितैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥ स्त्रियं प्रत्याह

मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवानोति मोदते चोमया सह ।। ७५ ।।

भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं नोपैगच्छनि सेह लोके विपुलां कीर्तिमवामोति । उमया च सह क्रीडति पुण्यप्रभावान् ॥ ७५ ॥ अधिवेदनकारणाभावे अधिवेत्तारं प्रत्याह

आज्ञासंपादिनीं दक्षां वीरसू प्रियवादिनीम् ।
त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं त्रियाः ।। ७६ ।।

आज्ञासंपैदिनीमादेशकारिणीम्, दक्षां शीघकारिणीम्, वीरसू पुत्रवतीम्, प्रियवादिनीं मधुरभाषिणीं यस्त्यजति अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस्तु भरणं प्रासाच्छादनादि दाप्यः ॥ ७६ ॥


१ सर्वत्र संबध्यते क. २ नैवोपगच्छति का . ३ आदेशसंपादिनीं ख