पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायं श्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ४७७ तथांचं रहंस्याधिकारे वसिष्ठः–‘वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्संप्त पञ्च वा । क्षौद्रयुतैस्तिलैः कृष्णैर्वाचयेदथवेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥' इति । तथा अनियतकालेऽपि दानं तेनैवोक्तम्—‘कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥’ इति । तथा व्यासेनाप्युक्तम्—‘तिलधेनु च यो दद्यात्संयतात्मा द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।।' इति । एवमादि दानजातं रहस्यकाण्डोक्तमविदुषां द्विजानां स्त्रीशशूद्रयोश्च वेदितव्यम् । यतु यमेनोक्तम्--'तिलान्ददाति यः प्रातस्तिलान्स्पृशति खादति । तिलखायी तिलाब्जुह्वन्सर्वं तरति दुष्कृतम् ॥' तथा–“द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च । अमावास्या पौर्णमासी ससमी द्वादशीद्वयम् ॥ संवत्सरमभुञ्जान सततं विजितेन्द्रियः । मुच्यते पातकैः सवैः स्वर्गलोकं च गच्छति ॥' इति । यञ्चात्रिणोक्तम्-‘क्षीराब्धौ शेषपर्यङ्के त्वाषाढ्यां संविशेद्धरिः । निद्रां त्यजति कार्तिक्यां तयोः संपूजयेद्धरिम् ॥ ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति ॥’ इलेयवमादि तत्सर्वं विद्याविरहिणां कामाकामसकृदसकृदभ्यासविषयतया व्यव स्थापनीयम् ॥ ३०९ ॥ वेदाभ्यासरतै क्षान्तै पञ्वयज्ञक्रियापरम् । नःस्पृशन्तीह पापानि महापातकजान्यपि ॥ ३१० ।। किंच । ‘वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जप । तद्दानं चैव शिष्येभ्यो"वेदा भ्यासो हि पञ्चधा । ’ इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्चमहा यज्ञानुष्ठाननिरतं महापातकजान्यपि पापानि न स्पृशन्ति । किमुत प्रकीर्णकजानि वाङानसजन्योपपातकानि चेत्यत्र तात्पर्यमपिशब्दालुक्ष्यते । एतञ्चाकामकारवेिष यम् । अतएव' वसिष्ठन-यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते । सर्व तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥’ इति प्रकीर्णकाद्यभिप्रायेणाभिधायाभिहितम्

  • न वेदबलमाश्रित्य पापकर्मरतिर्भवेत् । अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥

इति ॥ ३१० ॥ वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । जप्त्वा सहस्र गायत्र्याः शुद्धयेब्रह्मवधादृते ।। ३११ ।। किंच । सोपवसो वासरमुपवशिन् उषित्वा सलिले वसन्निशां नीत्वादित्यो दयानन्तरं सावित्र्याः सहस्त्रं जस्वा ब्रह्मवधव्यतिरिक्तसकलमहापातकादिपाप जातान्मुच्यते । अतश्चोपपातकादिष्वभ्यासेऽनेकदोषसमुच्चये वा वेदितव्यम् । विषमविषयसमीकरणस्यान्याय्यत्वात् । अतएव वृद्धवसिष्ठेन महापातको पपाकतयोः कालविशेषेण ब्रतविशेष उक्तः । यथाह –“यवानां प्रसृतिमञ्जलिं वा श्रप्यमाणं श्रृंतं वाभिमन्त्रयेत् ‘यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः । १ पञ्चसप्त च ख. २ किल्बिषं ड. ३ घृतं चाभिमत्रयेत ख