प्रायश्चित्तप्रकरणम्.५ ] मिताक्षरासहिता । ४७९ श्चापि गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ घृतं च कृष्ण वर्णायाः सर्व कापिलमेव च । अलाभे सर्ववर्णानां पञ्चगव्येष्वयं विधिः । गोमूत्रं माषकास्त्वष्टौ गोमयस्य तु षोडश। क्षीरस्य द्वादश प्रोक्ता दश्नस्तु दृश कीर्तिताः ॥ गोमूत्रवद्वतस्येष्टस्तदर्ध तु कुशोदकल । गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोम यम् । आप्यायखेति च क्षीरं दधिक्राव्णेति वै दधि ॥ तेजोऽसेिशुक्रमित्याज्यं देव स्यत्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसंनिधौ ॥ सप्तपत्राश्च ये दभ अच्छिन्नाग्राः शुचित्विषः । एतैरुद्रुत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदंविष्णुर्मानस्तोके च शंवतीः । एताभिचैव होतव्यं हुतशेषं पिबेद्विजः ॥ प्रणवेन समालोड्य प्रणवेनाभिमञ्य च । प्रणवेन समुद्रुत्य पिबेत्तत्प्रणवेन तु । मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥ यत्वगस्थिगतं पापं देहे तिष्ठति मानवे । ब्रह्मकूचोपवासस्तु दहत्यद्भिरेि वेन्धनम् ॥’ इति । यदा त्वेतदेव मिश्रितं पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा अतिसान्तपनसंज्ञां लभते–“एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्’ इति शङ्खस्मरणात् ॥ जाबालेन तु सप्ताहसाध्यं सान्तपनमुक्तम्-‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैवकं प्रत्यहं पीत्वा त्वहोरात्रमभोजनम् । कृच्छू सान्तपनं नाम सर्वपापप्रणाशनम्। ॥’ इत । एषा च गुरुलघुकृच्छूाणां शक्त्या द्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरत्रापि व्यवस्था बोद्धव्या ॥ ३३४ ॥ थक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छोऽयं महासान्तपनः स्मृतः ।। ३१५ ॥ सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छूो विज्ञेयः । कथमित्यपेक्षायामुक्तं पृथग्भूतैः षङ्गिगमूत्रादिभिरेकैकेनैकैकमहरतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाहसंपाद्यो महासान्तपनोऽभिहितः–“त्र्यहं पिबेतु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरै ज्यहं सर्पितस्तः शुचिः ॥ महा सान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥’ इति । जाबालेन त्वेकविंशतिरात्रिनिर्वत्र्यो महासान्तपन उत्क्तः–“षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । व्यहं चोपवसे दन्त्यं महासान्तपनं विदु ॥’ इति । यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य डग्रहमुपयोगस्तदा अतिसान्तपनम् । यथाह यमः–‘एतान्येव तथा पेयैान्येकैकं तु द्यहं व्यहम् । अतिसान्तपनं नाम श्वपाकमपि शोधयेत् ॥' इति । श्वपाकमपि शोधयेदित्यर्थवादः }॥ ३१५ ॥ इति महासांतपनातिसांतपने । पणोंदुम्बरराजीवबेिल्वपत्रकुशोदकै प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ् उदाहृतः ।। ३१६ ॥ १ अच्छिन्नाग्राः कुशाः स्थिता इति पाठ . २ तात्रेण ख. पेयादेकैकं ख ३
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति