पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] ' मिताक्षरासहिता । पराकमाहः द्वादशाहोपवासेन पराकः परिकीर्तितः ।। ३२० । ऋज्वर्थोऽयमर्धश्लोकः ॥ ३२० ॥ ४८३ ण्याकाचवामतक्राम्बुसत्तूनां अतिवासरम् एकरात्रोपवासश्च कृच्छ्ः सौम्योऽयमुच्यते ।। ३२१ ।। पिण्याको निःसृततैलस्तिलओदननिखावोदश्चिदुदकसक्तूनां पञ्चानामेकैकं प्रति दिवसैमुपभुज्य षष्ठेऽह्नि उपवसेदेष सौम्याख्यः कृच्छोऽभिधीयते । द्रव्यपरि माणं तु प्राणयात्रामात्रनिबन्धनमधिगन्तव्यम् । जाबालेन तु चतुरहव्यपी सौम्यकृच्छू उक्तः–“पिण्याकं सक्तवस्तत्रं चतुर्थेऽहन्यभोजनम् । वासो वै दक्षिणां दद्यात्सौम्योऽयं कृच्छू उच्यते ॥' इति ॥ ३२१ ॥ तुलापुरुषाख्य कृच्छ्माह एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहेिकः ।। ३२२ ।। एषां पिण्याकादीनां पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृछो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानादुपवासस्य ॥ यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः-‘आचाममथ पिण्याकं तकं चोदकसत्कुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षी त्र्यहद्वयम् ॥ एकविंश तिरात्रस्तु तुलापुरुष उच्यते ।' इति । अत्र हारीताद्युत्केतिकर्तव्यता ग्रन्थ गारवभया लिख्यत ॥ ३२२ ॥ चान्द्रायणमाह तिथिवृद्धया चरेत्पिण्डान् शुळे शिख्यण्डसंमितान् । एकैकं हृासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् ॥३२३ ।। चान्द्रायणाख्यं त्रैतं कुर्वन् मयूराण्डपरिमेितान् पिण्डान् शुझे आपूर्यमाणपक्षे तिथिवृद्धया चरेत् भक्षयेत् । यथा प्रतिपदप्रभृतिषु चन्द्रकलानामेकैकशो वृद्धि रर्धमासे तद्वत्पिण्डानपि प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशो वर्धयन् भक्षयेद्यावत्पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्येवमेकैकशो. ग्रासान् हासयन्नश्चीयाद्या वचतुर्दशी । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वा इन्दुक्ष्येऽर्थादुपवसेत् । तथाच वसिष्ठः–‘एकैकं वर्धयेत्पिण्डं शुझे कृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणेो विधिः ॥’ इति । चन्द्रस्यायनमेिवायनं चरणं यस्मिन्कर्मणि हासवृद्धिभ्यां तच्चान्द्रायणम् । संज्ञायां दीर्घः । इदं चव यववत्प्रान्तयोरणीयो मध्ये स्थवीय इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्णपक्षप्रति १ मुपयुज्य ख . २ यथाविधि ड. ३ कर्म कुर्वन् ङ.