पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ याज्ञवल्क्यस्मृतिः । प्रायश्चित्ताध्यायः इति । गौतमेनापि प्राजापत्यादेनैरपेक्षत्वमुक्तम्—‘प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति, द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात् . मुच्यते, तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति महापातकादपीत्यभिप्रेतम्। मनुनाप्युक्तम् (११।२१५)-“पराको नाम कृच्छ्रोऽयं सर्वपापापनोदन इंति । हारीतेनाप्युक्तम्-*चान्द्रायणं यावकश्च तुलापुरुष एव च । गवाँ चैवानुगमनं सर्वपापप्रणाशनम् ॥' तथा –“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥’ तथा तप्तकृच्छूमधि कृत्यापि तेनैवोक्तम्—“एष कृच्छो द्विरभ्यस्तः पातकेभ्यः प्रमोचयेत् । त्रिरभ्यस्तो यथान्यायं शूद्रहत्यां व्यपोहति ॥’ इति । उशनसा चोक्तम्--'यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् । प्राजापत्येन कृच्छेण शोधयेन्नात्र संशय इति । एतानि प्राजापत्यादीन्यनादिष्टपूपातव्कादिपु सकृदभ्यासापेक्षया व्यस्तानि समस्तानि वा योजनीयानि । तथा आदिष्टवतेष्वपि महापातकादिषु अभ्यासा येक्षया योजनीयानि । अतएव यमेनोक्तम् –“यत्रोक्तमित्यादि । गौतमेना प्युक्तनिष्कृतीनां संग्रहार्थ सर्वप्रायश्चित्तञ्ज्ञण् कृन्दम् । तथा यद्यपि तेनैवोक्तम् द्वितीयं चरित्वा यदन्यन्महापापेभ्यः पापं कुरुते तस्मात्प्रमुच्यते’ इत्युक्त्वा ‘तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति, तदपि महापातकाभिप्रायं नतु [ निष्कृतिकेष्वपि प्राजापत्यादयो योजनीया । तत्र द्वादशवार्षिकद्रते द्वादशद्वाद शदिनान्येकैकं प्राजापत्यं परिकल्प्य गण द्वादशवार्पिके वैकल्पिकमनुष्टयं भवति । तदशत्तौ तावत्यो वा धनवो दातव्याः । तदसंभवे निष्काणां पष्टयधिकशतत्रयं दातव्यम् । तथा स्मृलयन्तरम् प्राजापल्यक्रियाऽशक्तो धेतुं दद्याद्विचक्षण । धेनोरभावे दातव्यं मूल्यं तुल्यमसंशयम् ॥ मूल्यार्धमपेि निष्कं वा तदर्ध शक्यपेक्षया । गावाम भावे निष्कः स्यात्तदर्ध पाद एव वा’ इति स्मरणात् । मूख्यदानस्याप्यशक्तौ तावन्तो वोदवासाः कार्या । तत्राप्यशक्तो गायत्रीजपः पटत्रिंशल्लुक्षरसंख्याक कार्यः ।–‘कृच्छूोऽयुतं तु गायत्र्या उदयासस्तथैव च । धेनुप्रदानं विप्राय सममेतचतुष्टयम् ॥’ इति पराशरस्मरणात् । यत्तु चतुर्विशतिमतेऽभिहि तम्–“गायत्र्यास्तु जपन्कोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरा पानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः । गायत्र्याः षष्टिभि लैक्षेर्मुच्यते गुरुतल्पगः ॥” इति, तत् द्वादशवार्षिकतुल्यविधानतयोक्तं न पुनर शक्तविषयमिति न विरोध । एवमन्येऽपि—‘कृच्छूो देव्ययुतं चैव प्राणायाम शतद्वयम् । तिलहोमसहस्त्रं तु चेदपारायणं तथा ॥’ इत्यादयः प्रत्याभ्रायाश्चतुः र्विशतिमतादिशास्राभिहिताः षष्टयधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अतिपातकेषु ससल्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् ।. तावन्तो वा १ सर्वपातकनाशनं ख. २ तन्मूल्यं वा न संशयः ङ