पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ] मिताक्षरासहिता ४८९ धेन्वाद्यः प्रत्यान्नायाः । 'पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्यास्रायाश्च धेन्वाद्यस्तावन्त एव वा । तथा चतुर्विंशतिमतेऽभिहितम्-‘जन्मप्रभृति पापानि बहूनि विविधानि च । कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतमाचरेत् ॥ प्रत्यान्नाये गवां देयं साशीति धनिना शतम् । तथाष्टादशलक्षाणि गायत्र्या वा जपेडुधः ।।' इति । इदमेव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैरेकैकप्राजापत्य कल्पनायां लिङ्गम् । एवमुपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजा पत्यास्तावन्तः प्रत्यान्नायाः । त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्या प्रत्याम्रायाश्च धेनूदवासाद्यस्तावन्त एव । मासिकञ्चतविषयेषु तु सार्ध प्राजा पत्यंद्वयं तावानेव वा प्रत्याझायः । चान्द्रायणविषयभूतेषु पुनरुपपातकेषु प्राजा पत्यत्रयम् । तदशक्तस्य प्रत्याम्रायस्तावानेव । यत्पुनश्चतुर्विशतिमतेऽभिहि तम्—‘अष्टौ चान्द्रायणे देयाः प्रत्यान्नायविधौ सदा' इति, तेंदपि धनिनः पेिपी लिकामध्यादिचान्द्रायणप्रल्यान्नायविषयम् । मासातिकृच्छूविषयभूतेषु पुनरुप पातकेषु सार्धसप्तसप्राजापत्याः प्रत्यान्नायाश्च धेन्वादयस्तावन् त एव । ‘प्राजापत्ये तु गामेकां दद्यात्सान्तपने द्वयम् । पैराकतसातिकृच्छे तिस्रतिस्रस्तु गास्तथा ॥ इति चतुर्विंशतिमतेऽभिधानात् । एतच ‘एकैकं ग्रासमश्रीयादि'त्यामलकपरि मेितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरान्नभोजनपक्षे पुनधेनुद्वयमेव । प्राजापत्यस्य षडुपवासतुल्यत्वात् तद्विगुणत्वाच्चातिकृच्छूरस्य । यद्यपि नवसु दिनेषु पाणिपूरा झस्य -भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्ठाने केशातिशयात्षडहोपवास समानप्राजापत्यद्वयतुल्यत्वमेव । प्राजापत्यस्य च षडुपवासतुल्यत्वं युक्तमेव. तथाहि । प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्तावेकोपवाससंपत्तिः । द्वितीये त्र्यहे प्रातःकालभोजनत्रयैनिवृत्तिपरस्य । तथाच अयाचितत्र्यहेऽपि सायंतनभोर्जनत्र यवर्जनेऽपरस्येत्येवं नवभिर्दिनैरुपवासत्रयम् । पुंनश्चान्यत्र्यहे चोपवासत्रयमिति ऋषभ कादशगोदानसहितत्रिरात्रोपवासात्मकगोवधत्रते तु साधैकादशप्राजापत्यास्तावत्संख्याकाश्चोद्वासादयः अत्यान्नायाः । मासं पयो व्रते तु सार्ध प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकत सातिकृच्छूस्थाने कृच्छूत्रयं चरेत् । । ‘सान्तपनस्य वाध्यर्धमशक्तौ व्रतमाचरेत् । इति षट्टत्रिंशन्मतेऽभिधानात् । चान्द्रायणपराककृच्छूातिकृच्छूास्तु प्राजापत्य त्रयात्मका द्वादशवार्षिकत्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्रा यास्तु धेन्वादयत्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः । तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः । त्रैमासिके गोवधत्रतस्थाने गोमूत्रस्रानादीनां कर्तव्यताबाहुल्याचान्द्रायणादि त्रयम् । मासिकव्रते तु योगीश्वरोत्ते एकमेव चान्द्रायणं धेनूद्वासादिप्रत्यास्रायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं १ प्राजापत्यानां प्रत्यास्रायधेन्वादयः ख तदतिधनिनः ङ. ३ पराकतप्तातिकृच्छे तिस्रस्तिस्रस्तु गास्तथेति पाठान्तरम्. ४ तुल्यत्वाद्विगुणत्वाच्च ड. ५ त्रयवर्जनपरस्य ड ६ भोजनवर्जनेऽन्यस्येति ङ. ७ ततश्चान्त्यत्र्यहे ङ. ८ खानादीतिकर्तव्यता ङ