प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । १ श्रुत्वेमामृषयो ड . अतो नात्र प्रायश्चित्तेष्विव यावत्संभवाङ्गानुष्ठानमङ्गीकरणीयमिति दूरोत्सारितं प्रत्यान्नायोपादानम् । कृच्छूाद्यनुष्टानावृत्तौ तु ‘अधिकारिणः फलावृत्तिः कर्मण्या रम्भभाव्यत्वादिति न्यायलभ्या स्थितैवेति नेदमविवक्षितम् ॥ ३२७ ॥ प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्रधारणादिविधीन्सार्थवादान्प्रार्थना वरदानरूपेण प्रतिपादयितुमाह श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् । इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ।। ३२८ ।। अत्र हि वर्णाश्रमाद्विव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तानखिलान् योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोंत्फुललोचनास्तं महिमगुणशालिनमचिन्त नीयशक्तिविभवमिदमभिधास्यमानमूचिवाँस ॥ ३२८ ॥ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः । इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३२९ ।। विद्यार्थी प्रापुयाद्विद्यां धनकामो धनं तथा । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ।। ३३० ।। श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति । पितृणां तस्य तृप्तिः स्यादक्षया नात्र संशयः ॥ ३३१ ।। ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । वेश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् ।। ३३२ ।। इत्थमृज्वथैः श्लोकैः सामश्रवःप्रभृतयोऽनेकधा प्रार्थयन्तेस्म ॥ ३२९-३३२ ॥ अपरामपि प्रार्थनामाह य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु । अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ।। ३३३ ॥ यस्विदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेदिति श्रावणविध्यर्थवादः । तदेतदस्मत्प्रार्थितमर्थ सर्वत्र भवाननुमन्यताम् ॥ ३३३ ॥ वरदानमाह श्रुत्वैतद्याज्ञवल्क्योऽपि प्रीतात्मा मुनिभाषितम् । एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ।। ३३४ ॥ एतदृषिभिभौषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थ नोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य भवत्प्रार्थितं सकलमित्थं भवत्वित्येवं किल भगवान्बभाषे ॥ ३३४ ॥ इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजक विज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्र विवृतौ प्रायश्चित्ताध्यायस्तृतीयः समाप्त ॥ ४९१
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति