पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ याज्ञवल्क्यस्मृतःि । अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्य सूतकप्रकरणम् १ । आपद्धर्मः प्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्त प्रकरणम् ५ । तत्रादौ कर्मविपाकः ६ । महापातकादिनिमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्यातिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ ॥ प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । वतग्रहणविधिः । १२ रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्ादिलक्षणम् १४ । इति प्रकरणानि ॥ [प्रायश्चित्ताध्यायः उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगेिन ॥ १ ॥ इति याज्ञवल्क्यमुनिशास्रगता विवृतिर्न कस्य विहिता विदुषः । प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोरमृतम् ॥ २ ॥ गम्भीराभिः प्रसन्नाभिर्वाग्भिन्र्यस्ता मिताक्षरा । अनल्पार्थाभिरल्पाभिर्विवृतिर्विहिता मया ॥ ३ ॥ नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीवेिक्रमाकोपमः । विज्ञानेश्वरपण्डितो श्राकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥ ४ ॥ स्रष्टा वाचां मधुरवपुपां विद्वदाश्चर्यसीन्नां दातार्थानामतिशयजुषामर्थिसार्थाश्रनायाः । ध्याता मूर्तेर्मुरविजयिनो जीवतादार्कचन्द्रं जेतारीणां तनुसहभुवां तत्त्वविज्ञाननाथः ॥ ५ ॥ आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा र्दे च प्रत्यक्पयोधेश्चटुलतिभिकुलोत्तुङ्गरिङ्गत्तरङ्गात् । आ च अँचः समुद्रान्नतनृपतिशिरोरलभाभासुराङ्किः पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥ ६ ॥ अन्तर्मुखानि यदि खानि तपस्ततः किं नान्तर्मुखानि यदि खानेि तपस्ततः किम् । अन्तर्बहिर्यदि हरिश्च तपस्ततः किं नान्तर्बहिर्यदि हरिश्च तपस्ततः किम् ॥ ७ ॥ १ दन्योपमामाकल्पं ङ. २ मधुलवमुचां ङ. ५ प्राचीसमुद्रादमितनृपशिरोरत. समाप्यं समिताक्षरा याज्ञवल्क्यस्मृतिः ।। ३ मर्थिनामर्थिताया . ४ यावत्प्रत्यक्ष