पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

त्सरात्पूर्वमेवर्तुदर्शने संवेिशतो न ब्रह्मचर्यस्खलनदोषो यथा श्राद्धादिषु । तस्मा त्स्वार्थहानि-परार्थकल्पना-प्रासबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं “पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्रासेनियम शशादिषु, श्वादिषु चव प्राप्तेः परिसंख्येत्युभयसंभवस्तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन प्रायश्चित्तस्मृतिविरोध इति परिमंग्यै वाश्रिता । एतेन ‘सायंप्रातद्विजातीनामशनं स्मृतिनोदितम्’ इत्यत्रापि नियमो नान्तरा भोजनं कुर्यात्’ इति च पुनरुत्तं स्यान्परिसंख्यायाम् । शुवंच नियमे सति ऋतावृताविति वीप्सा लभ्यते, ‘निमित्तावृत्तै नैमित्तिकमप्यावर्तते इति न्यायात् । ‘यथाकामी भवे'दित्ययमपि नियम एव । अनृतावपि स्रीकाम नायाँ सत्यां स्त्रियमभिरमयेदेवेति । ‘ऋत्तावुपेयात्सर्वत्र वा प्रनिषिद्धवर्जम्’ इत्ये तदपि गौतमीयं सूत्रद्वयं नियमपरमेव । ‘ऋतावुपेयादनृनावपि स्त्रीकामनायां सत्यां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेन ॥ ८१ ॥

भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरेः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।। ८२ ।।

किंच । भर्तृप्रभृतिभिः पूर्वोक्ताः साध्व्यः स्त्रियो यथाशक्त्यलंकारवलसनभोजन पुष्पादिभिः संमाननीयाः । यस्मात्ताः पूजिता धर्मार्थकामान्संवर्धयन्ति ॥ ८२ ॥ तया पुनः समर्पितगृहव्यापारया किंभूतया भवितव्यमित्यत आह

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्लूशुरयोः पादवन्दनं भर्तृतत्परा ।। ८३ ।।

संयतः स्वस्थाननिवेशितः उपस्करो गृहोपकरणवगों या सा तथोक्ता । यथोललूखलमुसलशूर्पदेः कण्डनस्थाने, दृषदुपलयोरवियोगेन पेपणस्थान इत्यादि । दक्षा गृहव्यापारकुशल ह्यष्टा सदैव प्रहसितानना । व्ययपराङ्मुखी न व्यय शीला । स्यादिति सर्वत्र शेषः । किंच । श्वश्रश्च श्वशुरश्च श्वशुरै । ‘श्वशुरः श्वश्रबा इत्यकशेषः । तयोः पादवन्दनं नित्यं कुर्यातू । श्वशुरग्रहणं मान्यान्तरोपलक्षणार्थम् भर्तृतत्परा भर्तृवशवर्तिनी सती पूर्वोक्तं कुर्यात् ॥ ८३ ॥ भर्तृसन्निधावुक्तम्, प्रोषिते भर्तरि तया किं कर्तव्यमित्यत आह

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ।। ८४ ॥

देशान्तरगतभर्तृका क्रीडां कन्दुकादिभि , शरीरसंस्कारमुद्वर्तनादिभि समाजो जनसमूहः उत्सवो विवाहादिः तयोर्दर्शनं, हास्यं वितृम्भणं, परगृहे गमनम् । त्यजेदिति प्रत्येकं संबध्यते ॥ ८४ ॥


१ प्रायश्चित्तविरोधः क. २ श्रुतिचोदितं क. ३ परिसंख्यायाँ । तस्मान्नियमपरमेवेति ग वानृतावपि कः