पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चितिं समारुह्य न विप्रा गन्तुमर्हति' इति विशेषपस्मरणात् । अनेन क्षत्रिया दिस्त्रीणां पृथक्चित्यभ्यनुज्ञा गम्यते । यत्तु कैश्चिदुक्तं पुरुषाणामिव स्त्रीणाम प्यात्महननस्य प्रतिषिद्धत्वादतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्रमतिक्रा मुन्या अयमनुगमनोपदेशः श्येनवत् । यथा ‘श्येनेनाभिचरन्यूजेत’ इनि तीब्र क्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्रमतिक्रामतः श्येनोपदेश इति । तदयुक्तम् । ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पशभावेन प्रतिषेधसंस्पशत्फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनशाखेण विधीयमानत्वाप्रतिषेधसंस्पर्शभावादीषोमीयव त्स्पष्टमेवानुगमनस्य श्येनवैषम्यम् । यत्तु मतं हिंसानाम मरणानुकूलो व्यापार इयेनश्च परमरणानुकूलव्यापाररूपत्वाद्विसैव, कामाधिकारे च करणांशे रागत प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात् । रागप्रयुक्तहिंसारूपत्वात् श्येनः प्रतिषिद्ध स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशाखेण मरणस्यैव स्वर्गसाधनतया बिधा नान्मरणे यद्यपि रागतः प्रवृत्तिस्तथापि मरणानुकूले व्यापारेऽग्निप्रवेशादाविति कर्तव्यतारूपे विधित एव प्रवृत्तिरिति न निषेधस्यावकाश ‘वायव्यं श्वतमालभेत् भूतिकामः’ इतिवत् तस्मात्स्पष्टमेवानुगमनस्य श्येनवैपम्यम् । यत्तु ‘तस्मादुह न पुरायुषः स्वःकामी प्रेयात्’ इति श्रुतिविरोधादनुगमनमयुक्तमिति । यच्च तदुह न स्वःकाम्यायुषः प्राङ् न प्रेर्येत्’ इति स्वर्गफलोद्देशेनायुषः प्रागायुव्र्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः शेषे सति नित्यनैमित्तिककर्मानुष्ठानक्षपिता न्त:करणकलङ्कस्य श्रवणमनननिदिध्यासनसंपत्ती सत्यमात्मज्ञानेन निरतिशयान न्दब्रह्मप्रासिलक्षणमोक्षसंभवः । तस्मादनित्याल्पसुखरूपस्वर्गार्थमायुव्र्ययो न कर्तव्य इत्यर्थः । अतश्च मोक्षमनिच्छन्त्या अनित्याल्पसुखरूपस्वगर्थिन्या अनु गमनं युक्तमितरकाम्यानुष्ठानवदिति सर्वमनवद्यम् ॥ ८६ ॥

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवामोति प्रेत्य चानुत्तमां गतिम् ।। ८७ ।।

किंच । प्रियमनवद्यत्वेन मनसोऽनुकूलम्, आयत्यां यच्छेयस्करं तद्धितम् । प्रियं च तद्धितं च प्रियहितम् । पत्युः प्रियहितं पतिप्रियहितं तस्मिन् युक्ता निरता । स्वाचारा शोभन आचारो यस्याः सा तथोक्ता । शोभनश्वाचारो दर्शित शङ्गेन–“नानुक्त्वा गृहान्निर्गच्छेन्नानुत्तरीया न त्वरितं व्रजेन्न परपुरुषमभि भाषेतान्यत्र वणिक्प्रव्रजितवृद्धवैद्येभ्यो न नाभिं दर्शयेदागुल्फाद्वासः परिदध्यान्न स्तनौ विवृतौ कुर्यान्न हसेदप्रावृता भर्तारं तद्वन्धून्वा न द्विष्यान्न गणिकाधूर्ता भिसारिणीप्रव्रजिताप्रेक्षणिकामायामूलकुहककारिकादुःशीलादिभिः सहैकत्र तिष्ठ त्संसर्गेण हि कुलस्त्रीणां चैवारित्रं दुष्यति’ इति । विजितेन्द्रिया विजितानि संयमेितानि इन्द्रियाणि श्रोत्रादीनि वागादीनि च मनःसहितानि यया सा इह


१ विशेषोपादानात् क. २ प्रतिषिद्धशास्र. ग. ३ कर्तव्यतानुरूपं. ख. ४ स्वर्गकामः ५ प्रेयादिति ख. ६ क्षालितान्तःकरणं. ख. ७ हि चरित्रं क. ८ सा तथोक्ता इह क