२८ मश्र द्विन्नासु सवर्णाखिति संबध्यते । विनाशब्दस्य संबन्धिशब्दत्वाद्वेत्तेभ्यः सवणेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश्चायमर्थः संवृत्तः । उक्तन विधिनोढायां सवर्णायां वोढुः सवर्णादुत्पन्नास्तस्मात्समानजातीया भवन्ति । अतश्च कुण्डगोलककानीनसहोढेजादीनामसवर्णत्वमुक्तं भवति । ते च सवणे भ्योऽनुलोमप्रतिलोमेभ्यश्च भिद्यमानाः साधारणधर्महिंसादिभिरधिक्रियन्ते ।
- ३शूद्राणां तु सधमोणः सवेऽपध्वसजाः स्मृताः' इति स्मरणात् । अपध्वंसजा
व्यभिचारजाताः शूद्रधर्मेरपि द्विजशुश्रूषादिभिरधिक्रियन्ते । ननु कुण्डगोल कयोरब्राह्मणत्वात् श्राद्धे प्रतिषेधोऽनुपपन्न न्यायविरोधश्च । यो यजातीया द्यजातीयायामुत्पन्नः स तजातीय एव भवति--यथा गोर्गवि गौ , अश्वाद्वडवाया तस्माङ्गाह्मणाङ्गाह्मण्यामुत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीन पौनर्भवादीननुक्रम्य-सजातीयेष्वयं प्रोक्तस्तनयेपु मया विधिः, इंति वक्ष्यमाण वचनविरोधश्च । नैतत्सारम् । ब्राह्मणेन ब्राह्मण्यामुत्पन्नो ब्राह्मण इनि भ्रमनि वृत्त्यर्थः श्राद्धे प्रतिषेधः । यथाऽऽत्यन्तमप्रासस्य पतितस्य श्राद्धे प्रतिषेधः । नच यायविरोध ब्राह्मणादिजातिस्तु स्मृतिलक्षणा यथास्मरणं भवति । यथा समानेऽपि ब्राह्मण्ये कुण्डिनो वसिष्टो ऽत्रिगोतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यन्वे समानेऽपि ब्राह्मण्यादि जातिः स्मरणलक्षणा । मातापित्रोचैतदेव जातिलक्षणम् । नचानवस्था । अनादि त्वात्संसारस्य शब्दार्थव्यवहारवत् । ‘सजातीयेष्वयं प्रोक्तस्तनयेपु मया विधि इति तूक्तानुवादत्वाद्यथासंभवं व्याख्यास्यते । क्षेत्रजस्तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्यलमतिप्रसङ्गेन । किंचानिन्द्येषु ब्राह्माद्विविवाहेषु पुत्रा सन्तानवर्धना अरोगिणो दीघायुषो धर्मप्रजासंपन्ना भवन्ति ॥ ९० ॥ [ आचाराध्याय सवर्णानुक्त्वा इदानीमनुलोमानाह विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्रद्यां निषादो जातः पारशवोऽपि वा ।। ९१ ।। ब्राह्मणात्क्षत्रियायां विन्नायामुत्पन्नो मूर्धावसेिक्तो नाम पुत्रो भवति । वैश्य कन्यायां विन्नायामुत्पन्नोऽम्बष्ठो नाम भवति । शैद्रायां विन्नायां निपादो नाम पुत्रो भवति । निषादो नाम कश्चिन्मत्स्यघातजीवी प्रतिलोमजः स माभूदिति पारशवोऽयं निषाद् इति संज्ञाविकल्पः । विप्रादिति सर्वत्रानुवर्तते । यत्तु ‘ब्राह्म णेन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायामुत्पादितो वैश्य एव भवति । वैश्येन शूद्रायामुत्पादितः शूद्र एव भवति’ इति शङ्ख १ वोढुभ्यः क. २ सहोढादीनां क. ३ अब्राह्मणत्वे ख. ४ इति वचन ख. ५ वसिष्ठो गोतम ख. ६ विन्नायामम्बष्ठो. ख. ७ शशूद्रायां निषादो ख. ८ शद् इति क.