पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सनाझिं वा । तदनन्तरं सूर्यदैवत्यान् ‘उदु त्यं जातवेदसम्’ इत्यादीन्मम्रा जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्याकरणादींश्च श्रवणेनाधिगच्छेजानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥

उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
रुलात्वा देवान्पिश्चैव तर्पयेदर्चयेत्तथा ।। १०० ।।

तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थ सिद्धये । अलब्धलाभो योगः लब्धपरिपालनं क्षेमं तदर्थमुपेयादुपासीत । उपेया दित्यनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरण सेवा । तस्याः श्ववृत्तित्वेन निषेधात्, ('सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्’ इति मनुस्मरणात्) । ततो मध्याहे शास्त्रोक्तविधिना लद्यादिषु स्नात्वा देवान्स्वगृह्योक्तान् पितृश्श्च चका रादृषींश्च देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भ प्रभृतीनामन्यतमं यथावासनमृग्यजुःसाममत्रैस्तत्प्रकाशकैः स्वनामभिर्वा चनुष्यै न्तैर्नमस्कारयुतैराराधयेद्यथोक्तविधिना ॥ १०० ॥

वेदाथर्वपुराणानि सेतिहासानेि शक्तितः ।
जपयज्ञप्रसिछद्यर्थ विद्यां चाध्यात्मिकीं जपेत् ।। १०१ ॥

तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यान्मिकीं च विद्यां जपयज्ञसिद्धयर्थ यथोक्तन विधिना यथाशक्ति जपेत् ॥ १०१ ॥

बलिकर्मस्खधाहोमस्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ।। १०२ ।।

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः। अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेपां फलश्रवणं तदेपां पावनत्वख्यापनार्थ न काम्यत्वप्रतिपादनाय ॥१०२॥

देवेभ्यश्च हुतादनाच्छेषान्दूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ।। १०३ ।।

ोक्तविधिना वैश्वदेहोमं कृत्वा तदवशिष्टनानि भूतेभ्यो बलिं ग्रहणमपकव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्न श्वचाण्डा निक्षिपेत् । । चशब्दात्कृमिपापरोगिपतितेभ्यः । यथाह मनु -‘शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां


१ श्रवणेनाधि ख. २ क्षेमस्तदर्थ ग. ३ सेवेत्याद्यधिकं क. ग. पुस्तकयो: हासादीनि कृत्वा क. ५ वैश्वदेवं कृत्वा क.