च शनकैर्निक्षिपेदुवि ॥' इति । एतच सायप्रातः कर्तव्यम् । ‘अथ सायंप्रात सिद्धस्य हविष्यस्य जुहुयात्' इत्याश्वलायनस्मरणात् । इह केचिद्वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति-“अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्’ इत्यन्नसंस्कारकर्मकता प्रतीयते । ‘अथातः पञ्च यज्ञाः’ (गृ. सू. ३१) इत्युपक्रम्य ‘तानेतान्यज्ञानहरह कुवते'ति नित्यत्वाभिधानात्पुरुषार्थत्वं चावग म्यते’ इति । तदयुक्तम् । पुरुषार्थत्वेऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथाहि द्रव्य संस्कारकर्मत्वपक्षेऽार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव युक्तम् । –‘महायशैश्च यशैश्च ब्राह्मीयं क्रियते तनु इति । तथा–“वैश्वदेवे तु निवृत्त यद्यन्योऽतिथिरात्रजेत् । तस्मा अन्न यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥’ इति (३॥ १०८) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयम् । तस्मादथ सायंप्रातरित्यादिनोत्पत्तिप्रयोगौ दर्शितौ, ‘तानेतान्यज्ञानहरहः कुर्वीत' (गृह्य. सू. अ. ३ खं. १) इत्यधिकारविधिरिति सर्वमनवद्यम् ॥ १०३ ॥
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सैततं कुर्यान्न पचेदनमात्मने ।। १०४ ॥
प्रत्यहमन्ने पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूल फलादि । तस्याप्यभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्यादविस्मरणा र्थम् । न पचेदन्नमात्मार्थम् । अन्नग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १०४ ॥
बालस्खवासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ।। १०५ ।।
परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथि भृत्याँश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । “प्रैणाग्निहोत्रविधि नाश्रीयादन्नमनापदि । मतं विपकं विहितं भक्षणं प्रीतिपूर्वकम् ॥' ॥ १०५ ।।
आपोशनेनोपरिष्टादधस्तादश्क्षता तथा ।
अनग्रममृतं चैव कार्यमनं द्विजन्मना ।। १०६ ।।
भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणान्नमनाममृतं च कार्यम् । द्विजन्मग्रहणमुपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १०६ ॥
अतिथित्वेन वर्णानां देयं शक्तयानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ।।
वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामतिथित्वेन युगपत्प्रसानां ब्राह्मणाद्यानुपूब्र्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदाऽसावप्रणोद्यो-
१ एतेन काम्यत्वमपि प्रतिपादितं भवति. २ चान्वहं कुर्यात् ख. ३ प्राणेल्याद्यधिकं क. पुस्तके