पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गृहस्थधर्मप्रकरणम् ५ ]
३५
मिताक्षरासहिता

अध्यः मधुपर्केण संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्क लक्षयति । ऋत्विजश्चोक्तलक्षणाः संवत्सरादर्वागपि प्रतियज्ञे मधुपर्केण संपूज्याः ॥ ११० ।।

अध्वनीनोऽतिथिर्जयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १११ ॥

अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रह्मलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसंपन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापन क्षमो वेदपारगः ॥ १११ ॥

परपाकरुचिर्न स्यादनिन्द्यमत्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ ११२ ॥

परपके रुचिर्यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्धेनामव्रणं विना । ‘अनिन्धेनामत्रितो नापक्रमेत्’ इति स्मरणात् । वाक्पा णिपादचापल्यं वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक्कापल्यमसभ्यानृतादिभाषणम् । पाणिचापल्यं वैगन स्फोटनादि । पादचा पल्यं लङ्घनप्लवनादि । चकारनेत्रादिचापल्यं च वर्जयेत् ।–‘न शिश्नोदर पाणिपादचक्षुर्वाक्चापलानि कुर्यात्’ इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत् । अनारोग्यहेतुवत् ॥ ११२ ॥

अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् ।
अहःशेषं समासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३ ॥

पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं याव दनुव्रजेत् । ततो भोजनानन्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इटैः काळ्यकथाप्रपञ्चचतुरैः, बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातिवृष्याथ संविशेत् ।। ११४ ॥

ततः पूर्वोक्तेन विधिना पश्चिमां संध्यामुपास्य आहवनीयादीनसीनानिं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूवोंक्तेः स्ववासिन्यादिभिः परिवृतो नातिवृष्य भुक्त्वा चकाराद्यज्ययादिगृहचिन्तां निर्वर्यानन्तरं संविशेत्स्वष्यात् ॥ ११४ ॥

ब्राह्मे मुहूर्ते चोत्थायं चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान् काले यथाशक्ति न हापयेत् ॥ ११५ ॥

ततो ब्राह मुहूर्ते उस्थाय पश्चिमेऽर्धप्रहरे प्रबुद्ध्यात्मनो हितं कृतं करिष्य माणं च वेदार्थसंशयांश्च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्वप्रतिभा-


१ अध्ययनक्षमो ख. २ कल्याण ख- ३ अश्मिीन्वा ख. ४ प्रतिभासन ख.