पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गृहस्थधर्मप्रकरणम् ५ ]
३७
मिताक्षरासहिता ।

तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि ।–‘षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच प्रति ग्रहः ॥' इति (१०॥७६) मनुस्मरणात् । अत इज्यादीन्यन् इयं कर्तव्यानि न प्रतिग्रहादीनि । ‘द्विजातीनामध्ययनमिज्या दानं च ब्राह्मणस्याधिकाः, प्रवचन याजनप्रतिग्रहाः पूर्वेषु नियमः’ इति गौतमस्मरणात् ॥ ११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ।। ११९ ।।

क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थ घृत्यर्थ च । वैश्यस्य कुसीद कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्धयर्थ द्रव्यप्रयोगः । लाभार्थ क्रयविक्रयौ वाणिज्यम्। शेषं प्रसिद्धम् ।–‘शस्त्रास्त्रभृत्वं क्षत्रस्य वणिक् पशुकृषी विशाः । आजीवनार्थ धर्मस्तु दानमध्ययनं यजिः ॥’ इति (१०७९) मनुस्मरणात् ॥ ११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैजवेद्विजातिहितमाचरन् ।। १२० ।।

शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थ वृत्त्यर्थ च । तत्र ब्राह्मणशुश्रूषा परमो धर्म ।–“विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीत्यैते' इनि ( १०।१२३) मनुस्म रणात् । यदा पुनर्द्धिजशुश्रूषया जीवितुं न शक्रोति तदा वणिग्वृत्या जीवेत् । नानाविधैर्वा शिल्पैद्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिद्विजातिशुश्रूषायाम योग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देवलोक्तानि ‘शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहन् पण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥

भार्यारतिः शुचिर्भूत्यभर्ता श्राद्धक्रियारतः ।
नमस्कारेण मत्रेण पञ्चयज्ञान्न हापयेत् ॥ १२१ ।।

किंच भार्यायामेव न साधारणास्त्रीषु परखीषु वा रतिरभिगर्मनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्धक्रिया रतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्यविरुद्धानि तेषु रतः । नम इत्यनेन मत्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठत् । नमस्कारमत्रं च केचित्–“देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥’ इति वर्णयन्ति । नम इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽौ कर्तव्यं न वैवाहिकेऽझावेिल्याचार्याः ॥ १२१ ॥
इदानीं साधारणधर्मानाह-

अहिंसा सत्यमस्तेयं शैौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ।। १२२ ॥


१ क्रियापरः ख.