पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

चतुष्पदग्रहग्रामधनधान्ययुक्तो लोकानुवतीं शालीनःइति । शालीनोऽपि चतु- र्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपशुपायैः पङ्किजवत्येकः । याजना दुिभिस्त्रिभिरन्यः । याजनाध्यापनाभ्यामपरः । चतुर्थस्वध्यापनेनैव । तथाह मनुः (४९)—‘षट्कर्मको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥’ इति । अत्र च ‘प्रतिग्रहोऽधिको विने’ इत्यादिना शाली नस्य वृत्तयो दर्शितः । यायावरस्यापि शिलोञ्छेनेति ॥ १२८ ॥

इति गृहस्थधर्मप्रकरणम् ।


अथ स्नातकधर्मेषीकरणम् ६

एवं श्रतस्तनेि कर्माण्यभिधयेदानीं गृहस्थस्य स्नानदारभ्य ब्रह्मणस्या वश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानवसंकल्परूपाणि स्नातकव्रतान्याह—

न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ।
न विरुद्धप्रसङ्गन संतोषी च भवेत्सदा ॥ १२९ ॥

ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्रायु (या दर्शिताम्तत्र विशेष उच्यते--स्वाध्याय- विरोधिनमर्थमप्रतिषिद्धमपि नेहेत नन्विच्छेत् । न यतस्ततः न यतः कुतश्चिद विदिताचारात्। न विरुद्धप्रसङ्गन विरुद्धमयज्ययाजनादि, प्रसङ्ग नृत्यगीतादिः । विरुद्धं च प्रसङ्गश्व विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति संबनते । नल आवृति: प्रत्येकं पर्युदासौ । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नशठदः प्रत्येकं पर्युदासार्थ एव । किंच अर्थालाभेऽपि संतोषी परितृप्तो भवेत् । चकारासंयतश्च ‘संतोयं परमास्थाय सुखथ संयतो । भवेत्’ इति (४।१२) मनुस्मरणात् ॥ १२९ ॥
कुतस्तर्हि धनमन्विच्छेदित्याह -

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डिबकवृत्तींश्च वर्जयेत् ॥ १३० ॥

क्षुधा सीदन्पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात् , अन्तेवासिनो वक्ष्य माणलक्षणात्, याज्यात् याजनहच्च धनमाददीत । क्षुधा सीन्नित्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश्रृिंदर्थमन्विच्छेदिति गम्यते । किंच दृम्भिहैतुकादीन्सर्वकार्येषु लैकिकवैदिकशास्त्रीयेषु वर्जयेत्। चकाराद्वि कर्मस्थबैडालवेंतिकान्शष्ठान्वर्जयेत् । यथाह मनुः ( ४।३० ). -'पाखण्डिनो विकर्मस्थान्बैडालव्रतिकान्ठन् हैतुकान्बकवृत्तींश्च वाड्यात्रेणापि नार्चयेत् ॥' इति । लोकरञ्जनार्थमेव कर्मानुष्टयी दम्भी । युक्किबलेन सर्वत्र संशयकारी हैतुकः। त्रैविद्यविरुद्धपरिगृहीताश्रमिणः पाखण्डिनः । बकवद्यस्य वर्तनमिति वकवृत्तिः । यथाह मनुः-“अधोदृष्टिनैकृतिकः स्वार्थसाधनतत्परः । शठो


१ कुतश्चिद्धनमन्वि. क . २ वृत्तिकशठान् क. गः ३ नैष्कृतिकः ख.