वर्षति सति “अयं मे वज्रः पाप्मानमपहन्तु’ इति मञ्चमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । ‘न प्रधावेच वर्षति’ इति प्रतिषेधातू नव प्रत्यक्शिराः स्वप्यात् । चकारान्नो न शयीत । एकश्च शून्यगृहे नच नद्भः शयीतेति । नैकः स्वपेच्छून्यगृहे' इति च (४॥५७) मनुस्मरणात् ॥ १३६ ॥
ष्टीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाशैौ न चैनमभिलैङ्घयेत् ।। १३७ ।।
ष्ठीवनमुद्विरणं, असृग्रत्तं, शकृत् पुरीषं, शेषं प्रसिद्धं एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः–‘तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यातू’ इति । अग्रेौ च पादी न प्रतापयेत् । नाप्य#ि लङ्कयेत् । चकारात् ष्टीवनादीन्यौ न निक्षिपेत् । मुखोपधमनादि चाझेर्न कुर्यात् । तथाच मनुः (४॥५३)-‘नाझिं मुखेनोपध मेन्नझाँ नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदौ न च पादौ प्रतापयेत् ॥ अधस्तान्नो पदध्याञ्च न चैनभैभिलङ्कयेत् । न चैनं पादतः कुर्यान्न प्राणिर्वेधमाचरेत् ॥ इत ॥ १३७ ॥
जलं पिबेन्नाञ्जलिना न शूयुनं प्रबोधयेत् ।
नादैः क्रीडेन्न धर्मशैव्र्याधितैर्वा न संविशेत् ।। १३८ ।।
जलमञ्जलिना संहताभ्याँ हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्ष णम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नोत्थापयेत् । “श्रेयांसं न प्रबोधयेत्’ इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मत्रैः पशुलम्भनादि भिर्न क्रीडेत् । व्याधितैज्र्वराद्यभिभूतैरेकत्र न संवेिशेन्न शयीत ॥ १३८ ॥
विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ।। १३९ ।।
जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेदिति संबद्धयते । केशादिषु संस्थितिं वर्जयेत । चकारादृथिकापसामे ध्येषु च ॥ १३९ ॥
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्कवित् ।
न राज्ञः प्रतिगृह्णीयाछुब्धस्योच्छास्रवर्तिनः ।। १४० ।।
परस्य क्षीरादि पिबॅन्तीं गां परसै नाचक्षीत नच निवर्तयेत् । अद्वारेण कापथेन कचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच. कृपणस्य शास्राति क्रमकारिणो राज्ञः सकाशात्प्रतिगृह्णीयात् ॥ १ ४० ॥
१ च्छादितो न इयात् क . २ मनुलङ्कयेत् ग. ५ क्षीरादि धयन्तीं गां. क. या० ७ ३ मतिलङ्कयेत् ग . ४ प्राणाबाध. ख