प्रतिग्रहे सूनेिचक्रिध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ।। १४१ ।।
प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दृशगुणं दुष्टः ।
सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी
सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥
अथाध्ययनधर्मानाह-
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ।। १४२ ।।
अधीयन्त इत्यध्याया वेदास्तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति
श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां
वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति
तदा भाद्रपदे मासेि श्रवणनक्षत्रे कुर्यात् । तत ऊध्र्व सार्धचतुरो मासान्वेदान
धीयीत । तथाच मनुः (४॥९५)–“श्रावण्यां प्रैष्टपद्यां वाप्युपाकृत्य यथा
विधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥’ इति ॥ १४२ ॥
उत्सर्जनकाल:-
पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः ।। १४३ ।।
पौषमासस्य रोहिण्यामष्टकायां वा ग्रामाद्वहेिर्जलसमीपे छन्दसां वेदानां
स्वगृह्योक्तविधिनोत्सर्ग कुर्यात् । यदा पुनर्भाद्रपदे मासेि उपाकर्म तदा माघशुक्
प्रथमदिवसे उत्सर्ग कुर्यात् । यथोत्तै मनुना (४॥९६)–‘पैौषे तु छन्दसां
कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्कुस्य वा प्रासे पूर्वाङ्गे प्रथमेऽहनि ॥’ इति ।
तदनन्तरं पक्षिणीमहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गान्यधी
यीत । यथाह मनुः (४॥९७) ‘यथाशास्त्रं तु कृत्वैवमुत्सर्ग छन्दसां बहिः ।
विरमेत्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् ॥ अत ऊध्र्व तु छन्दांसेि शुळेषु
नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥’ इति ॥ १४३ ॥
अनध्यायानाह-
त्र्यहं प्रेतेष्वनध्यायः शिष्यत्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ।। १४४ ।।
उत्क्तन मार्गेणाधीयानस्य द्विजस्य शिष्यत्विग्गुरुबन्धुषु प्रेतेषु मृतेषु यहमन ध्यायस्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशा खाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च त्र्यहमनध्याय ॥ १४४ ॥
१ प्रतिग्रहेषु साध्येषु ख