पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
स्नातकधर्मप्रकरणम् ६ ]
४५
मिताक्षरासहिता ।

संध्यागर्जितनिर्धातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ।। १४५ ॥

संध्यायां मेघध्वनैौ, निघते आकाशे उत्पातध्वनौ, भूमेिचलने, उल्कापतने मत्रस्य ब्राह्मणस्य वा समाप्तौ आरण्यकाध्ययने च द्युनिशमहोरात्रमनध्यायः १४५

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके
ऋतुसंधिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ॥ १४६ ।।

पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्यो परागे च बुनिशमनध्यायः । यत्तु—‘यहं न कीर्तयेद्रह्म राज्ञो राहोश्च सूतके इति तद्भस्तास्तमयविषयम् । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्विकभोजने तत्प्रतिग्रहे च द्युनिशमनध्यायः । एतचैकोद्दिष्टव्यतिरिक्तविषयम् । तत्र तु त्रिरात्रम् (मनुः ४॥११०)–‘प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तये ब्रह्म’ इति स्मरणात् ॥ १४६ ॥

पशुमण्डूकनकुलश्चाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्ये ॥ १४७ ।।

अध्येतृणां पश्चादिभिरन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे उंच्ष्ट्राय दिवसे चाहोरात्रमनध्यायः । द्युनिशमेिति प्रकृते पुनरहोरात्रग्रहणं संध्यागर्जित निघतभूकम्पोल्कानिपातनेष्वाकालिकत्वज्ञापनार्थम् । –“आकालेिकनिघतभूक म्पराहुदर्शनोल्काः’ इति गौतमवचनात् । निमित्तकालादारभ्यापरेद्युर्यावत्स एव कालस्तावत्कालः अकालः तत्र भव आकालिकोऽनध्याय । एतच्च प्रातः संध्यास्तनिते । सायंसंध्यास्तनेिते तु रात्रिमेव ।–‘सायंसंध्यास्तनेिते तु रात्रिं प्रातःसंध्यैस्तनितेऽहोरात्रम्’ इति हारीतस्मरणात् । यत्पुनगौतमेनोक्तं ‘श्वनकुल मण्डूकमार्जाराणमन्तरागमने त्र्यहमुपवासो विप्रवासश्चेति तत्प्रथमाध्ययन एव ॥ १४७ ॥

श्वक्रोष्ट्रगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १४८ ।।

श्वा कुकुरः । क्रोष्टा सृगालः । गर्दभो रासभः । उलको घृकः । साम सामानि । बाणो वंशः । आत दुःखितः । एषां श्वादीनां निःस्वने तावत्कालमनध्याय । एवं वीणादिनिःस्वनेऽपि ।–‘वेणुवीणाभेरीमृदङ्गगच्यार्तशब्देषु' इति गौतम वचनात् । गन्नी शकटम् । अमेध्यादीनां संनिधाने तावत्कालिकोऽनध्यायः ॥१४८॥

देशेऽशुचावात्मनि च विद्युत्तनितसंप्तवे ।
भुक्त्वापाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९ ॥


१ उत्सवदिवसे. २ संध्यामहोरात्रं ख. ३ मार्जाराणां त्र्यहं ख. ४ ध्ययनविषय एव ख.