पितामहादिक्रमायातः । अर्धसीरी हलपर्यायसीरोपलक्षितकृषिपफलभागग्राही ।
नापितो गृहव्यापारकारयिता नापितश्च । यश्च चाङनःकायकर्मभिरात्मानं निवे.
दयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्ना । चकारात्कुम्भ
कारश्च ।–“गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्ना ’ इति
वचनात् ॥ १६६ ॥
इति स्नातकधर्मप्रकरणम् ।
अथ भक्ष्याभक्ष्यप्रकरणम् ७
न स्वाध्यायविरोध्यर्थमित्यत आरभ्य ब्राह्मणस्य स्नातकवतान्यभिधायेदानीं द्विजातिधर्मानाह--
अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।। १६७ ।।
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ।। १६८ ।।
अनचैितं अचर्चाहय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययाद्विव्य तिरेकेण, देवाद्यर्चनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केश कीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमनम्लं केवलं कालपरिवासेन द्रव्या न्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छुक्तं दध्यादिव्यतिरेकेण ।–“न पापीयसोऽन्नमश्रीयान्न द्विःपकं न शुत्तं न पर्युषितं अन्यत्र रागखाण्डवञ्चुक्रदधिगुड गोधूमयवपिष्टविकारेभ्यः’ इति शङ्कस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोजिझतम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिरीक्षितम् । उदक्या रजस्वला तया स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम् ।--‘अमे ध्यपतिचण्डालपुल्कसरजस्वलाकुनखिकुष्टिसंस्पृष्टान्न वर्जयेत्’ इति शङ्खस्मर णात् । को भुङ्ग इति यदाघुष्य दीयते तत्संघुष्टाझम् । अन्यसंबन्ध्यन्यव्यपदेशेन यदीयते तत्पर्यायान्नम्, यथा -‘ब्राह्मणान्न ददच्छूद्रः शूद्वान् ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥’ इति । पर्याचान्तमिति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं तन्न भोक्तव्यम् । एतदुक्तं भवति-गण्डूषग्रहणादूध्र्व आचमनात्प्राकू न भोक्तव्यमिति । पाश्चान्तमिति पाठे एकस्यां पौ पार्श्वस्थ आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेदिति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघातम् । शाकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७ ॥ १६८ ॥
१ कर्मस्थायी क.