मांसानि । वेिइजानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेदिति प्रत्येकमभिसंबध्यते ॥ १७१ ॥
क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वाश्च ग्रामवासिनः ।। १७२ ।।
क्रव्यादा आममांसादनशीला । पक्षिणो गृध्रादयः । दात्यूहश्चातकः । शुकः कीरः । चञ्चवा ग्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः । टिट्टिभम्तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतभृतयः । एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥
कोयष्टिपुवचक्राह्वबलाकाबकविष्किरान् ।
वृथाकृसरसंयावपायसाऽपूपशष्कुलीः ।। १७३ ।।
कोयष्टिः क्रौञ्चः । पुवो जलकुकुट । चक्राह्वश्चक्रवाकः । बलाकाबको प्रसिद्ध । नखैर्विकीर्य भक्षयन्तीति विष्किराश्चकोरादय रघुव गृह्यन्ते । लावकमयूरा दीनां भक्ष्यत्वात्, ग्रामकुकुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्कोयष्टया दीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽपूपश रुकुलीर्वर्जयेत् । कृसरं तिलमुद्भसिद्धे ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेष । पायसं पयसा शतमन्नम् । अपूपोऽलेहपको गोधूमविकार । शष्कुली न्नेहपको गोधूमविकारः । ‘न पचेदन्नमात्मने' इति कृसरादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥
कलविङ्क सकाकोलं कुररं रक्षुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ।। १७४ ।।
कलविङ्को ग्रामचटक । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्र्युभयचारित्वा त्पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रजुदालको वृक्षकुट्टकः । जालपादो जालाकारपादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्व चनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश्च । एतान्कल विङ्कादीन्वर्जयेत् ॥ १७४ ॥
चाषांश्च रक्तपादांश्च सौनं वछूरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्यहं वसेत् ।। १७५ ।।
चाषाः क्रिकीदिवयः रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घात स्थानभर्व मांसं भक्ष्याणामपि । वलुरं शुष्कमांसम् । मत्स्या मीनाः । एतांश्चापा दीन्वर्जयेत् । चकारान्नालिकाशणछत्राककुसुम्भादीन् ।–‘नालिकाशणछत्राककु सुम्भालाबुचिङ्कवान् । कुम्भीकॅन्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥’ इति ‘तथा-
१ पुरीषस्थाने उत्पन्नानि क. २ तिलमुद्भमिश्र ओदनः क. ३ उभयपरत्वात् ख. ४ कम्बुक क.